विष्णु-विजयस्तोत्रम्

देवा ऊचुः

नताः स्म विष्णुं जगदादिभूतं
सुरासुरेन्द्रं जगतां प्रपालकम्।
यन्नाभिपद्मात् किल पद्मयोनिर्-
बभूव तं वै शरणं गताः स्मः॥८९॥
नमो नमो मत्स्यवपुर्धराय
नमोऽस्तु ते कच्छपरूपधारिणे।
नमः प्रकुर्मश्च नृसिंहरूपिणे
तथा पुनर्वामनरूपिणे नमः॥९०॥
नमोऽस्तु ते क्षत्रविनाशनाय
रामाय रामाय दशास्यनाशिने।
प्रलम्बहन्त्रे शितिवाससे नमो
नमोऽस्तु बुद्धाय च दैत्यमोहिने॥९१॥
म्लेच्छान्तकायापि च कल्किनाम्ने
नमः पुनः क्रोडवपुर्धराय।
जगद्धितार्थं च युगे युगे भवान्
बिभर्ति रूपं त्वसुराभवाय॥९२॥
निषूदितोऽयं ह्यधुना किल त्वया
दैत्यो हिरण्याक्ष इति प्रगल्भः।
यश्चेन्द्रमुख्यान् किललोकपालान्
संहेलया चैव तिरश्चकार॥९३॥
स वै त्वया देवहितार्थमेव
निपातितो देववर प्रसीद।
त्वमस्य विश्वस्य विसर्गकर्ता
ब्राह्मेण रूपेण च देवदेव॥९४॥
पाता त्वमेवास्य युगेयुगे च
रूपाणि धत्से सुमनोहराणि।
त्वमेव कालाग्निहरश्च भूत्वा
विश्वं क्षयं नेष्यसि चान्तकाले॥९५॥
अतो भवानेव च विश्वकारणं
न ते परं जीवमजीवमीश।
यत् किं च भूतं च भविष्यरूपं
प्रवर्त्तमानं च तथैव रूपम्॥९६॥
सर्वं त्वमेवासि चराचराख्यं
न भाति विश्वं त्वदृते च किञ्चित्।
अस्तीति नास्तीति च भेदनिष्ठं
त्वय्येव भातं सदसत्स्वरूपम्॥९७॥
ततो भवन्तं कतमोऽपि देव
न ज्ञातुमर्हत्यविपक्वबुद्धिः।
ऋते भवत्पादपरायणं जनं
तेनागता स्मः शरणं शरण्यम्॥९८॥

व्यास उवाच

ततो विष्णुः प्रसन्नात्मा उवाच त्रिदिवौकसः।
तुष्टोऽस्मि देवा भद्रं वो युष्मत्स्तोत्रेण साम्प्रतम्॥९९॥
य इदं प्रपठेद् भक्त्या विजयस्तोत्रमादरात्।
न तस्य दुर्लभं देवास्त्रिषु लोकेषु किञ्चन॥१००॥
गवां शतसहस्रस्य सम्यग् दत्तस्य यत्फलम्।
तत्फलं समवाप्नोति कीर्तनाच्छ्रवणान्नरः॥१०१॥
सर्वकामप्रदं नित्यं देवदेवस्य कीर्तनम्।
अतः परं महाज्ञानं न भूतं न भविष्यति॥१०२॥

॥इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे देवासुरसङ्ग्रामसमाप्तौ विजयस्तोत्रं नाम पञ्चसप्ततितमोऽध्यायः॥