सङ्कष्टनाशन-स्तोत्रं
[देवा ऊचुः]
नमो मत्स्यकूर्मादिनानास्वरूपैः
सदाभक्तकार्योद्यतायार्तिहन्त्रे।
विधात्रादिसर्गस्थितिध्वंसकर्त्रे
गदाशङ्खपद्मारिहस्ताय तेऽस्तु॥१॥
रमा वल्लभायासुराणां निहन्त्रे
भुजङ्गारियानाय पीताम्बराय।
मखादिक्रियापाककर्त्रे विकर्त्रे
शरण्याय तस्मै नताः स्मो नताः स्मः॥२॥
नमो दैत्यसन्तापितामर्त्यदुःखा-
चलध्वंसदम्भोलये विष्णवे ते।
भुजङ्गेशतल्पेशयायार्कचन्द्र-
द्विनेत्राय तस्मै नताः स्मो नताः स्मः॥३॥
नारद उवाच
सङ्कष्टनाशनं नाम स्तोत्रमेतत्पठेन्नरः।
स कदाचिन्न सङ्कष्टैः पीड्यते कृपया हरेः॥४॥
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलन्धरसभायां नारदागमनं नाम षोडशोऽध्याये सङ्कष्टनाशन-स्तोत्रं सम्पूर्णम्॥