श्री-लक्ष्मी-नृसिंह-पञ्चरत्न-स्तोत्रम्
त्वत्-प्रभु-जीव-प्रियमिच्छसि चेन्नरहरि-पूजां कुरु सततं
प्रतिबिम्बालङ्कृति-धृति-कुशलो बिम्बालङ्कृतिमातनुते।
चेतो-भृङ्ग भ्रमसि वृथा भव-मरु-भूमौ विरसायां
भज भज लक्ष्मी-नरसिंहानघ-पद-सरसिज-मकरन्दम्॥१॥
शुक्तौ रजत-प्रतिभा जाता कटकाद्यर्थ-समर्था चेद्
दुःखमयी ते संसृतिरेषा निर्वृति-दाने निपुणा स्यात्।
चेतो-भृङ्ग भ्रमसि वृथा भव-मरु-भूमौ विरसायां
भज भज लक्ष्मी-नरसिंहानघ-पद-सरसिज-मकरन्दम्॥२॥
आकृति-साम्याच्छाल्मलि-कुसुमे स्थल-नलिनत्व-भ्रममकरोः
गन्ध-रसाविह किमु विद्येते विफलं भ्राम्यसि भृश-विरसेऽस्मिन्।
चेतो-भृङ्ग भ्रमसि वृथा भव-मरु-भूमौ विरसायां
भज भज लक्ष्मी-नरसिंहानघ-पद-सरसिज-मकरन्दम्॥३॥
स्रक्-चन्दन-वनितादीन् विषयान् सुखदान् मत्वा तत्र विहरसे
गन्ध-फली-सदृशा ननु तेऽमी भोगानन्तर-दुःख-कृतः स्युः।
चेतो-भृङ्ग भ्रमसि वृथा भव-मरु-भूमौ विरसायां
भज भज लक्ष्मी-नरसिंहानघ-पद-सरसिज-मकरन्दम्॥४॥
तव हितमेकं वचनं वक्ष्ये शृणु सुख-कामो यदि सततं
स्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति।
चेतो-भृङ्ग भ्रमसि वृथा भव-मरु-भूमौ विरसायां
भज भज लक्ष्मी-नरसिंहानघ-पद-सरसिज-मकरन्दम्॥५॥
॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ श्री-लक्ष्मी-नृसिंह-पञ्चरत्न-स्तोत्रं सम्पूर्णम्॥