धन्वन्तरि-स्तोत्रम् (मत्स्य पुराणान्तर्गतम्)
क्षीरोदमथनोद्भूतं दिव्य-गन्धानुलेपनम्।
सुधा-कलश-हस्तं तं वन्दे धन्वन्तरिं हरिम्॥
देव-दानवा ऊचुः
नमो लोक-त्र्याध्यक्ष तेजसा जित-भास्कर।
नमो विष्णो नमो जिष्णो नमस्ते कैटभार्दन॥१॥
नमः सर्ग-क्रिया-कर्त्रे जगत् पालयते नमः।
नमः स्मृतार्ति-नाशाय नमः पुष्कर मालिने॥२॥
दिव्यौषधि-स्वरूपाय सुधा-कलश-पाणये।
शङ्ख-चक्र-गदा-पद्म-धारिणे वनमालिने॥३॥
देवेन्द्रादि-सुरेड्याय नमः क्षीराब्धि-जन्मने।
निर्गुणाय विशेषाय हरये ब्रह्म-रूपिणे॥४॥
जगत् प्रतिष्ठितं यत्र जगतां यो न दृश्यते।
नमः सूक्ष्मातिसूक्ष्माय तस्मै देवाय शङ्खिने॥५॥
यं न पश्यन्ति पश्यन्तं जगदप्यखिलं नराः।
अपश्यद्भिर्जगद् यश्च दृश्यते हृदि संस्थितः॥६॥
यस्मिन् वनानि पर्वता नद्यश्चैवाखिलं जगत्।
तस्मै नमोऽस्तु जगताम् आधाराय नमो नमः॥७॥
आद्य-प्रजापतिर्यश्च यः पितॄणां परः पतिः।
पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे॥८॥
यः प्रवृत्तौ निवृत्तौ च इज्यते कर्मभिः स्वकैः।
स्वर्गापवर्ग-फल-दो नमस्तस्मै गदा-भृते॥९॥
यश्चिन्त्यमानो मनसा सद्यः पापं व्यपोहति।
नमस्तस्मै विशुद्धाय पराय हरि-मेधसे॥१०॥
यं बुद्ध्वा सर्वभूतानि देव-देवेशमव्ययम्।
न पुनर्जन्म-मरणे प्राप्नुवन्ति नमामि तम्॥११॥
यो यज्ञे यज्ञ-परमैरिज्यते यज्ञ-संज्ञितः।
तं यज्ञ-पुरुषं विष्णुं नमामि प्रभुमीश्वरम्॥१२॥
गीयते सर्व-वेदेषु वेद-विद्भिर्विदां गतिः।
यस्तस्मै वेद-वेद्याय विष्णवे जिष्णवे नमः॥१३॥
यो विश्वं समुत्पन्नं यस्मिंश्च लयमेष्यति।
विश्वोद्भव-प्रतिष्ठाय नमस्तस्मै महात्मने॥१४॥
ब्रह्मादि-स्तम्ब-पर्यन्तं येन विश्वमिदं ततम्।
माया जालं समुत्तर्त्तं तमुपेन्द्रं नमाम्यहम्॥१५॥
विषाद-तोष-रोषाद्यैर्योऽजस्रं सुख-दुःखजम्।
नृत्यत्यखिल-भूत-स्थस्तमुपेन्द्रं नमाम्यहम्॥१६॥
यमाराध्य विशुद्धेन कर्मणा मनसा गिरा।
तरन्त्यविद्याम् अखिलाम् आदि-वैद्यं नमाम्यहम्॥१७॥
यः स्थितो विश्व-रूपेण बिभर्ति ह्यखिलौषधीः।
तं रत्न-कलशोद्भासि-हस्तं धन्वन्तरिं नुमः॥१८॥
विश्वं विश्व-पतिं विष्णुं तं नमामि प्रजापतिम्।
मूर्त्या चासुरमय्या तु तद्विधान् विनिहन्ति यः॥१९॥
रात्रि-रूपं सूर्य-रूपं भजेत्तं सान्ध्य-रूपिणम्।
हन्ति विद्या-प्रदानेन यो वा अज्ञान-जं तमः॥२०॥
यस्तु भेषज-रूपेण जगदाप्याययेत् सदा।
यस्याक्षिणी चन्द्र-सूर्यौ सर्व-लोक-शुभङ्करः।
पश्यतः कर्म सततं तं च धन्वन्तरिं नुमः॥२१॥
यस्मिन् सर्वेश्वरे वश्यं जगत् स्थावर-जङ्गमम्।
आभाति तमजं विष्णुं नमामि प्रभुमव्ययम्॥२२॥
॥इति मत्स्य-पुराणान्तर्गतं धन्वन्तरि-स्तोत्रं सम्पूर्णम्॥