ब्रह्मपारस्तोत्रम्
प्रचेतस ऊचुः
ब्रह्मपारं मुने श्रोतुमिच्छामः परमं स्तवम्।
जपता कण्डुना देवो येनाऽऽराध्यत केशवः॥५४॥
सोम उवाच
पारं परं विष्णुरपारपारः
परः परेभ्यः परमार्थरूपी।
स ब्रह्मपारः परपारभूतः
परः पराणामपि पारपारः॥५५॥
स कारणं कारणतस्ततोऽपि
तस्यापि हेतुः परहेतुहेतुः।
कार्येषु चैवं सह कर्मकर्तृ-
रूपैरशेषैरवतीह सर्वम्॥५६॥
ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो
ब्रह्म प्रजानां पतिरच्युतोऽसौ।
ब्रह्माव्ययं नित्यमजं स विष्णुः
अपक्षयाद्यैरखिलैरसङ्गिः॥५७॥
ब्रह्माक्षरमजं नित्यं यथाऽसौ पुरुषोत्तमः।
तथा रागादयो दोषाः प्रयान्तु प्रशमं मम॥५८॥
एतद् ब्रह्मपराख्यं वै संस्तवं परमं जपन्।
अवाप परमां सिद्धिं समाराध्य स केशवम्॥५९॥
इमं स्तवं यः पठति शृणुयाद् वाऽपि नित्यशः।
स कामदोषैरखिलैर्मुक्तः प्राप्नोति वाञ्छितम्॥
॥इति श्रीविष्णुपुराणे प्रथमेंऽशे पञ्चदशोऽध्याये ब्रह्मपारस्तोत्रं सम्पूर्णम्॥