Stotra · Viṣṇu
ब्रह्मपारस्तोत्रम्
Brahmapārastotram
About this stotra
The Brahmapāra Stotram, from the Viṣṇu Purāṇa.Script
प्रचेतस ऊचुः
ब्रह्मपारं मुने श्रोतुमिच्छामः परमं स्तवम्।
जपता कण्डुना देवो येनाऽऽराध्यत केशवः॥५४॥
सोम उवाच
पारं परं विष्णुरपारपारः
परः परेभ्यः परमार्थरूपी।
स ब्रह्मपारः परपारभूतः
परः पराणामपि पारपारः॥५५॥
स कारणं कारणतस्ततोऽपि
तस्यापि हेतुः परहेतुहेतुः।
कार्येषु चैवं सह कर्मकर्तृ-
रूपैरशेषैरवतीह सर्वम्॥५६॥
ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो
ब्रह्म प्रजानां पतिरच्युतोऽसौ।
ब्रह्माव्ययं नित्यमजं स विष्णुः
अपक्षयाद्यैरखिलैरसङ्गिः॥५७॥
ब्रह्माक्षरमजं नित्यं यथाऽसौ पुरुषोत्तमः।
तथा रागादयो दोषाः प्रयान्तु प्रशमं मम॥५८॥
एतद् ब्रह्मपराख्यं वै संस्तवं परमं जपन्।
अवाप परमां सिद्धिं समाराध्य स केशवम्॥५९॥
इमं स्तवं यः पठति शृणुयाद् वाऽपि नित्यशः।
स कामदोषैरखिलैर्मुक्तः प्राप्नोति वाञ्छितम्॥
॥इति श्रीविष्णुपुराणे प्रथमेंऽशे पञ्चदशोऽध्याये ब्रह्मपारस्तोत्रं सम्पूर्णम्॥