वेङ्कटेश मङ्गलाशासनम्
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम्।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम्॥१॥
लक्ष्मी-सविभ्रमालोक-सुभ्रू-विभ्रमचक्षुषे।
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम्॥२॥
श्रीवेङ्कटाद्रि-शृङ्गाग्र-मङ्गलाभरणाङ्घ्रये।
मङ्गलानां निवासाय श्रीनिवासाय मङ्गलम्॥३॥
सर्वावयवसौन्दर्य-सम्पदा सर्वचेतसाम्।
सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम्॥४॥
नित्याय निरवद्याय सत्यानन्दचिदात्मने।
सर्वान्तरात्मने श्रीमद्-वेङ्कटेशाय मङ्गलम्॥५॥
स्वतस्सर्वविदे सर्वशक्तये सर्वशेषिणे।
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम्॥६॥
परस्मै ब्रह्मणे पूर्णकामाय परमात्मने।
प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम्॥७॥
आकालतत्त्वमश्रान्तमात्मनामनुपश्यताम्।
अतृप्त्यमृतरूपाय वेङ्कटेशाय मङ्गलम्॥८॥
प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना।
कृपयाऽऽदिशते श्रीमद्-वेङ्कटेशाय मङ्गलम्॥९॥
दयामृत-तरङ्गिण्यास्तरङ्गैरिव शीतलैः।
अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम्॥१०॥
स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये।
सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम्॥११॥
श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे।
रमया रममाणाय वेङ्कटेशाय मङ्गलम्॥१२॥
श्रीमत् सुन्दरजामातृमुनिमानसवासिने।
सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम्॥१३॥
मङ्गलाशासनपरैर्मदाचार्य-पुरोगमैः।
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम्॥१४॥
॥इति श्री-वेङ्कटेश-मङ्गलाशासनं सम्पूर्णम्॥