Nama Stotram

वेङ्कटेशद्वादशनामस्तोत्रम्

वेङ्कटेशो वासुदेवो वारिजासनवन्दितः।
स्वामिपुष्करिणीवासः शङ्खचक्रगदाधरः॥१॥
पीताम्बरधरो देवो गरुडारूढशोभितः।
विश्वात्मा विश्वलोकेशो विजयो वेङ्कटेश्वरः॥२॥
एतद् द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः।
सर्वपापविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात्॥३॥

॥इति श्री-वेङ्कटेशद्वादशनामस्तोत्रं सम्पूर्णम्॥