Ashtakam

वेङ्कटेश-अष्टकम्

वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः।
सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च॥१॥
जनार्दनः पद्मनाभो वेङ्कटाचलवासनः।
सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः॥२॥
गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः।
वराहो वामनश्चैव नारायण अधोक्षजः॥३॥
श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः।
श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः॥४॥
रमानाथो महीभर्ता भूधरः पुरुषोत्तमः।
चोळपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः॥५॥
श्रीनिधिः सर्वभूतानां भयकृद् भयनाशनः।
श्रीरामो रामभद्रश्च भवबन्धैकमोचकः॥६॥
भूतावासो गिरिवासः श्रीनिवासः श्रियः पतिः।
अच्युतानन्त गोविन्दो विष्णुर्वेङ्कटनायकः॥७॥
सर्वदेवैकशरणं सर्वदेवैकदैवतम्।
समस्तदेवकवचं सर्वदेवशिखामणिः॥८॥
इतीदं कीर्तितं यस्य विष्णोरमिततेजसः।
त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते॥९॥
राजद्वारे पठेद् घोरे सङ्ग्रामे रिपुसङ्कटे।
भूतसर्पपिशाचादिभयं नास्ति कदाचन॥१०॥
अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत्।
रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात्॥११॥
यद्यदिष्टतमं लोके तत् तत् प्राप्नोत्यसंशयः।
ऐश्वर्यं राजसम्मानं भुक्तिमुक्तिफलप्रदम्॥१२॥
विष्णोर्लोकैकसोपानं सर्वदुःखैकनाशनम्।
सर्वैश्वर्यप्रदं नॄणां सर्वमङ्गलकारकम्॥१३॥
मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम्।
स्वामिपुष्करिणीतीरे रमया सह मोदते॥१४॥
कल्याणाद्भुतगात्राय कामितार्थप्रदायिने।
श्रीमद्वेङ्कटनाथाय श्रीनिवासाय मङ्गलम्॥१५॥

॥इति श्री-ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे वेङ्कटगिरिमाहात्म्ये श्री-वेङ्कटेश-अष्टकं सम्पूर्णम्॥