Nama Stotram

सुब्रह्मण्यषोडशनामस्तोत्रम्

सुब्रह्मण्यं प्रणाम्यहं सर्वज्ञं सर्वगं सदा।
अभीप्सितार्थ-सिद्‌ध्यर्थं प्रवक्ष्ये नामषोडशम्॥१॥
प्रथमो ज्ञानशक्त्यात्मा द्वितीयो स्कन्द एव च।
अग्निभूश्च तृतीयः स्याद् बाहुलेयश्चतुर्थकः॥२॥
गाङ्गेयः पञ्चमो विद्यात् षष्ठः शरवणोद्भवः।
सप्तमः कार्त्तिकेयः स्यात् कुमारः स्यादथाष्टकः॥३॥
नवमः षण्मुखश्चैव दशमः कुक्कुटध्वजः।
एकादशः शक्तिधरो गुहो द्वादश एव च॥४॥
त्रयोदशो ब्रह्मचारी षाण्मातुरश्चतुर्दशः।
क्रौञ्चभित् पञ्चदशकः षोडशः शिखिवाहनः॥५॥
एतट्षोडशनामानि जपेत् सम्यक् सदादरम्।
विवाहे दुर्गमे मार्गे दुर्जये च तथैव च॥६॥
कवित्वे च महाशस्त्रे विज्ञानार्थी फलं लभेत्।
कन्यार्थी लभते कन्यां जयार्थी लभते जयम्॥७॥
पुत्रार्थी पुत्रलाभं च धनार्थी लभते धनम्।
आयुरारोग्यवश्यश्च धनधान्य-सुखावहम्॥॥८॥

॥इति श्री-शङ्करसंहितायां शिवरहस्यखण्डे
श्री-सुब्रह्मण्यषोडशनामस्तोत्रं सम्पूर्णम्॥