सुब्रह्मण्यपञ्चरत्नम्
षडाननं चन्दनलेपिताङ्गं
महोरसं दिव्यमयूरवाहनम्।
रुद्रस्य सूनुं सुरलोकनाथं
ब्रह्मण्यदेवं शरणं प्रपद्ये॥१॥
जाज्वल्यमानं सुरवृन्दवन्द्यं
कुमार-धारातट-मन्दिरस्थम्।
कन्दर्परूपं कमनीयगात्रं
ब्रह्मण्यदेवं शरणं प्रपद्ये॥२॥
द्विषड्भुजं द्वादशदिव्यनेत्रं
त्रयीतनुं शूलमसीदधानम्।
शेषावतारं कमनीयरूपं
ब्रह्मण्यदेवं शरणं प्रपद्ये॥३॥
सुरारिघोराहवशोभमानं
सुरोत्तमं शक्तिधरं कुमारम्।
सुधार-शक्त्यायुध-शोभिहस्तं
ब्रह्मण्यदेवं शरणं प्रपद्ये॥४॥
इष्टार्थसिद्धिप्रदमीशपुत्रं
मिष्टान्नदं भूसुरकामधेनुम्।
गङ्गोद्भवं सर्वजनानुकूलं
ब्रह्मण्यदेवं शरणं प्रपद्ये॥५॥
यः श्लोकपञ्चकमिदं पठतीह भक्त्या
ब्रह्मण्यदेव-विनिवेशित-मानसः सन्।
प्राप्नोति भोगमखिलं भुवि यद्यदिष्टम्
अन्ते स गच्छति मुदा गुहसाम्यमेव॥
॥इति श्री-सुब्रह्मण्यपञ्चरत्नं सम्पूर्णम्॥