सुब्रह्मण्यभुजङ्गम्

सदा बालरूपाऽपि विघ्नाद्रिहन्त्री
महादन्तिवक्त्राऽपि पञ्चास्यमान्या।
विधीन्द्रादिमृग्या गणेशाभिधा मे
विधत्तां श्रियं काऽपि कल्याणमूर्तिः॥१॥
न जानामि शब्दं न जानामि चार्थं
न जानामि पद्यं न जानामि गद्यम्।
चिदेका षडास्या हृदि द्योतते मे
मुखान्निस्सरन्ते गिरश्चापि चित्रम्॥२॥
मयूराधिरूढं महावाक्यगूढं
मनोहारिदेहं महच्चित्तगेहम्।
महीदेवदेवं महावेदभावं
महादेवबालं भजे लोकपालम्॥३॥
यदा सन्निधानं गता मानवा मे
भवाम्भोधिपारं गतास्ते तदैव।
इति व्यञ्जयन् सिन्धुतीरे य आस्ते
तमीडे पवित्रं पराशक्तिपुत्रम्॥४॥
यथाब्धेस्तरङ्गा लयं यान्ति तुङ्गास्-
तथैवापदः सन्निधौ सेवतां मे।
इतीवोर्मिपङ्क्तीर्नृणां दर्शयन्तं
सदा भावये हृत्सरोजे गुहं तम्॥५॥
गिरौ मन्निवासे नरा येऽधिरूढास्-
तदा पर्वते राजते तेऽधिरूढाः।
इतीव ब्रुवन् गन्धशैलाधिरूढः
स देवो मुदे मे सदा षण्मुखोऽस्तु॥६॥
महाम्भोधितीरे महापापचोरे
मुनीन्द्रानुकूले सुगन्धाख्यशैले।
गुहायां वसन्तं स्वभासा लसन्तं
जनार्तिं हरन्तं श्रयामो गुहं तम्॥७॥
लसत्स्वर्णगेहे नृणां कामदोहे
सुमस्तोमसञ्छन्नमाणिक्यमञ्चे।
समुद्यत्सहस्रार्कतुल्यप्रकाशं
सदा भावये कार्त्तिकेयं सुरेशम्॥८॥
रणद्धंसके मञ्जुलेऽत्यन्तशोणे
मनोहारिलावण्यपीयूषपूर्णे।
मनःषट्पदो मे भवक्लेशतप्तः
सदा मोदतां स्कन्द ते पादपद्मे॥९॥
सुवर्णाभदिव्याम्बरैर्भासमानां
क्वणत्किङ्किणीमेखलाशोभमानाम्।
लसद्धेमपट्टेन विद्योतमानां
कटिं भावये स्कन्द ते दीप्यमानाम्॥१०॥
पुलिन्देशकन्याघनाभोगतुङ्ग-
स्तनालिङ्गनासक्तकाश्मीररागम्।
नमस्याम्यहं तारकारे तवोरः
स्वभक्तावने सर्वदा सानुरागम्॥११॥
विधौ कॢप्तदण्डान् स्वलीलाधृताण्डान्
निरस्तेभशुण्डान् द्विषत्कालदण्डान्।
हतेन्द्रारिषण्डाञ्जगत्त्राणशौण्डान्
सदा ते प्रचण्डान् श्रये बाहुदण्डान्॥१२॥
सदा शारदाः षण्मृगाङ्का यदि स्युः
समुद्यन्त एव स्थिताश्चेत् समन्तात्।
सदा पूर्णबिम्बाः कलङ्कैश्च हीनास्-
तदा त्वन्मुखानां ब्रुवे स्कन्द साम्यम्॥१३॥
स्फुरन्मन्दहासैः सहंसानि चञ्चत्
कटाक्षावलीभृङ्गसङ्घोज्ज्वलानि।
सुधास्यन्दिबिम्बाधराणीशसूनो
तवाऽऽलोकये षण्मुखाम्भोरुहाणि॥१४॥
विशालेषु कर्णान्तदीर्घेष्वजस्रं
दयास्यन्दिषु द्वादशस्वीक्षणेषु।
मयीषत् कटाक्षः सकृत् पातितश्चेद्
भवेत् ते दयाशील का नाम हानिः॥१५॥
सुताङ्गोद्भवो मेऽसि जीवेति षड्धा
जपन् मन्त्रमीशो मुदा जिघ्रते यान्।
जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः
किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः॥१६॥
स्फुरद्रत्नकेयूरहाराभिरामश्-
चलत्कुण्डलश्रीलसद्गण्डभागः।
कटौ पीतवासाः करे चारुशक्तिः
पुरस्तान्ममास्तां पुरारेस्तनूजः॥१७॥
इहाऽऽयाहि वत्सेति हस्तान् प्रसार्या-
ऽऽह्वयत्यादराच्छङ्करे मातुरङ्कात्।
समुत्पत्य तातं श्रयन्तं कुमारं
हराश्लिष्टगात्रं भजे बालमूर्तिम्॥१८॥
कुमारेशसूनो गुह स्कन्द सेना-
पते शक्तिपाणे मयूराधिरूढ।
पुलिन्दात्मजाकान्त भक्तार्तिहारिन्
प्रभो तारकारे सदा रक्ष मां त्वम्॥१९॥
प्रशान्तेन्द्रिये नष्टसंज्ञे विचेष्टे
कफोद्गारिवक्त्रे भयोत्कम्पिगात्रे।
प्रयाणोन्मुखे मय्यनाथे तदानीं
द्रुतं मे दयालो भवाग्रे गुह त्वम्॥२०॥
कृतान्तस्य दूतेषु चण्डेषु कोपाद्
दहच्छिन्धि भिन्धीति मां तर्जयत्सु।
मयूरं समारुह्य मा भीरिति त्वं
पुरः शक्तिपाणिर्ममाऽऽयाहि शीघ्रम्॥२१॥
प्रणम्यासकृत् पादयोस्ते पतित्वा
प्रसाद्य प्रभो प्रार्थयेऽनेकवारम्।
न वक्तुं क्षमोऽहं तदानीं कृपाब्धे
न कार्याऽन्तकाले मनागप्युपेक्षा॥२२॥
सहस्राण्डभोक्ता त्वया शूरनामा
हतस्तारकः सिंहवक्त्रश्च दैत्यः।
ममान्तर्हृदिस्थं मनःक्लेशमेकं
न हंसि प्रभो किं करोमि क्व यामि॥२३॥
अहं सर्वदा दुःखभारावसन्नो
भवान् दीनबन्धुस्त्वदन्यं न याचे।
भवद्भक्तिरोधं सदा कॢप्तबाधं
ममाधिं द्रुतं नाशयोमासुत त्वम्॥२४॥
अपस्मारकुष्ठक्षयार्शःप्रमेह-
ज्वरोन्मादगुल्मादिरोगा महान्तः।
पिशाचाश्च सर्वे भवत्पत्रभूतिं
विलोक्य क्षणात् तारकारे द्रवन्ते॥२५॥
दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्तिर्-
मुखे मे पवित्रं सदा तच्चरित्रम्।
करे तस्य कृत्यं वपुस्तस्य भृत्यं
गुहे सन्तु लीना ममाशेषभावाः॥२६॥
मुनीनामुताहो नृणां भक्तिभाजाम्
अभीष्टप्रदाः सन्ति सर्वत्र देवाः।
नृणामन्त्यजानामपि स्वार्थदाने
गुहाद् देवमन्यं न जाने न जाने॥२७॥
कलत्रं सुता बन्धुवर्गः पशुर्वा
नरो वाऽथ नारी गृहे ये मदीयाः।
यजन्तो नमन्तः स्तुवन्तो भवन्तं
स्मरन्तश्च ते सन्तु सर्वे कुमार॥२८॥
मृगाः पक्षिणो दंशका ये च दुष्टास्-
तथा व्याधयो बाधका ये मदङ्गे।
भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे
विनश्यन्तु ते चूर्णितक्रौञ्चशैल॥२९॥
जनित्री पिता च स्वपुत्रापराधं
सहेते न किं देवसेनाधिनाथ।
अहं चातिबालो भवाँल्लोकतातः
क्षमस्वापराधं समस्तं महेश॥३०॥
नमः केकिने शक्तये चापि तुभ्यं
नमश्छाग तुभ्यं नमः कुक्कुटाय।
नमः सिन्धवे सिन्धुदेशाय तुभ्यं
पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु॥३१॥
जयाऽऽनन्दभूमन् जयापारधामन्
जयामोघकीर्ते जयाऽऽनन्दमूर्ते।
जयाऽऽनन्दसिन्धो जयाशेषबन्धो
जय त्वं सदा मुक्तिदानेशसूनो॥३२॥
भुजङ्गाख्यवृत्तेन कॢप्तं स्तवं यः
पठेद् भक्तियुक्तो गुहं सम्प्रणम्य।
स पुत्रान् कलत्रं धनं दीर्घमायुर्-
लभेत् स्कन्दसायुज्यमन्ते नरः सः॥३३॥

॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ श्री-सुब्रह्मण्यभुजङ्गं सम्पूर्णम्॥