श्री-परमशिवेन्द्र-कृतं सुब्रह्मण्य-भुजङ्गम्
गणेशं नमस्कृत्य गौरी-कुमारं
गजास्यं गुहस्याग्र-जातं गभीरम्।
प्रलम्बोदरं शूर्प-कर्णं त्रि-णेत्रं
प्रवक्ष्ये भुजङ्ग-प्रयातं गुहस्य॥१॥
पृथक्-षट्-किरीट-स्फुरद्-दिव्य-रत्न-
प्रभाक्षिप्त-मार्तण्ड-कोटि-प्रकाशम्।
चलत्-कुण्डलोद्यत्-सु-गण्ड-स्थलान्तं
महानर्घ-हारोज्ज्वलत्-कम्बु-कण्ठम्॥२॥
शरत्-पूर्ण-चन्द्र-प्रभा-चारु-वक्त्रं
विराजल्ललाटं कृपा-पूर्ण-नेत्रम्।
लसद्-भ्रू-सु-नासा-पुटं विद्रुमोष्ठं
सु-दन्तावलिं सुस्मितं प्रेम-पूर्णम्॥३॥
द्वि-षड्-बाहु-दण्डाग्र-देदीप्यमानं
क्वणत्-कङ्कणालङ्कृतोदार-हस्तम्।
लसन्मुद्रिका-रत्न-राजत्-कराग्रं
क्वणत्-किङ्किणी-रम्य-काञ्ची-कलापम्॥४॥
विशालोदरं विस्फुरत्-पूर्ण-कुक्षिं
कटौ-स्वर्ण-सूत्रं तटिद्-वर्ण-गात्रम्।
सु-लावण्य-नाभी-सरस्तीर-राजत्-
सु-शैवाल-रोमावली-रोचमानम्॥५॥
सु-कल्लोल-वीची-वली-रोचमानं
लसन्मध्य-सुस्निग्ध-वासो वसानम्।
स्फुरच्चारु-दिव्योरु-जङ्घा-सु-गुल्फं
विकस्वत्-पदाब्जं नखेन्दु-प्रभाढ्यम्॥६॥
द्वि-षट्-पङ्कजाक्षं महा-शक्ति-युक्तं
त्रि-लोक-प्रशस्तं सु-कुक्के-पुर-स्थम्।
प्रपन्नार्ति-नाशं प्रसन्नं फणीशं
पर-ब्रह्म-रूपं प्रकाशं परेशम्॥७॥
कुमारं वरेण्यं शरण्यं सु-पुण्यं
सु-लावण्य-पण्यं सुरेशानुवर्ण्यम्।
लसत्-पूर्ण-कारुण्य-लक्ष्मीश-गण्यं
सु-कारुण्यमार्याग्र-गण्यं नमामि॥८॥
स्फुरद्-रत्न-पीठोपरि भ्राजमानं
हृदम्भोज-मध्ये महा-सन्निधानम्।
समावृत्त-जानु-प्रभा-शोभमानं
सुरैः सेव्यमानं भजे बर्हि-यानम्॥९॥
ज्वल-च्चारु-चामीकरादर्श-पूर्णं
चलच्चामर-च्छत्र-चित्र-ध्वजाढ्यम्।
सुवर्णामलान्दोलिका-मध्य-संस्थं
महाहीन्द्र-रूपं भजे सु-प्रतापम्॥१०॥
धनुर्बाण-चक्राभयं वज्र-खेटं
त्रि-शूलासि-पाशाङ्कुशाभीति-शङ्खम्।
ज्वलत्-कुक्कुटं प्रोल्लसद्-द्वादशाक्षं
प्रशस्तायुधं षण्मुखं तं भजेऽहम्॥११॥
स्फुरच्चारु-गण्डं द्वि-षड्-बाहु-दण्डं
श्रितामर्त्य-षण्डं सुसम्पत्-करण्डम्।
द्विषद्-वंश-खण्डं सदा दान-शौण्डं
भव-प्रेम-पिण्डं भजे सु-प्रचण्डम्॥१२॥
सदा दीन-पक्षं सुर-द्विड्-विपक्षं
सुमृष्टान्न-भक्ष्य-प्रदानैक-दक्षम्।
श्रितामर्त्य-वृक्षं महा-दैत्य-शिक्षं
बहु-क्षीण-पक्षं भजे द्वादशाक्षम्॥१३॥
त्रि-मूर्ति-स्वरूपं त्रयी-सत्-कलापं
त्रि-लोकाधिनाथं त्रिणेत्रात्म-जातम्।
त्रि-शक्त्या प्रयुक्तं सु-पुण्य-प्रशस्तं
त्रि-काल-ज्ञमिष्टार्थ-दं तं भजेऽहम्॥१४॥
विराजद्-भुजङ्गं विशालोत्तमाङ्गं
विशुद्धात्म-सङ्गं विवृद्ध-प्रसङ्गम्।
विचिन्त्यं शुभाङ्गं विकृत्तासुराङ्गं
भव-व्याधि-भङ्गं भजे कुक्क-लिङ्गम्॥१५॥
गुह स्कन्द गाङ्गेय गौरी-सुतेश-
प्रिय क्रौञ्च-भित् तारकारे सुरेश।
मयूरासनाशेष-दोष-प्रणाश
प्रसीद प्रसीद प्रभो चित्-प्रकाश॥१६॥
लपन् देव-सेनेश भूतेश शेष-
स्वरूपाग्नि-भूः कार्त्तिकेयान्न-दातः।
यदेत्थं स्मरिष्यामि भक्त्या भवन्तं
तदा मे षडास्य प्रसीद प्रसीद॥१७॥
भुजे शौर्य-धैर्यं करे दान-धर्मः
कटाक्षेऽतिशान्तिः षडास्येषु हास्यम्।
हृदब्जे दया यस्य तं देवमन्यं
कुमारान्न जाने न जाने न जाने॥१८॥
मही-निर्जरेशान्महा-नृत्य-तोषात्
विहङ्गाधिरूढाद् बिलान्तर्विगूढात्।
महेशात्म-जातान्महा-भोगि-नाथाद्
गुहाद् दैवमन्यन्न मन्ये न मन्ये॥१९॥
सुरोत्तुङ्ग-शृङ्गार-सङ्गीत-पूर्ण-
प्रसङ्ग-प्रियासङ्ग-सम्मोहनाङ्ग।
भुजङ्गेश भूतेश भृङ्गेश तुभ्यं
नमः कुक्क-लिङ्गाय तस्मै नमस्ते॥२०॥
नमः काल-कण्ठ-प्ररूढाय तस्मै
नमो नीलकण्ठाधिरूढाय तस्मै।
नमः प्रोल्लसच्चारु-चूडाय तस्मै
नमो दिव्य-रूपाय शान्ताय तस्मै॥२१॥
नमस्ते नमः पार्वती-नन्दनाय
स्फुरच्चित्र-बर्ही-कृत-स्यन्दनाय।
नमश्चर्चिताङ्गोज्ज्वलच्चन्दनाय
प्रविच्छेदित-प्राण-भृद्-बन्धनाय॥२२॥
नमस्ते नमस्ते जगत्-पावनात्त-
स्वरूपाय तस्मै जगज्जीवनाय।
नमस्ते नमस्ते जगद्-वन्दिताय
ह्यरूपाय तस्मै जगन्मोहनाय॥२३॥
नमस्ते नमस्ते नमः क्रौञ्च-भेत्त्रे
नमस्ते नमस्ते नमो विश्व-कर्त्रे।
नमस्ते नमस्ते नमो विश्व-गोप्त्रे
नमस्ते नमस्ते नमो विश्व-हन्त्रे॥२४॥
नमस्ते नमस्ते नमो विश्व-भर्त्रे
नमस्ते नमस्ते नमो विश्व-धात्रे।
नमस्ते नमस्ते नमो विश्व-नेत्रे
नमस्ते नमस्ते नमो विश्व-शास्त्रे॥२५॥
नमस्ते नमश्शेष-रूपाय तुभ्यं
नमस्ते नमो दिव्य-चापाय तुभ्यम्।
नमस्ते नमः सत्-प्रतापाय तुभ्यं
नमस्ते नमः सत्-कलापाय तुभ्यम्॥२६॥
नमस्ते नमः सत्-किरीटाय तुभ्यं
नमस्ते नमः स्वर्ण-पीठाय तुभ्यम्।
नमस्ते नमः सल्ललाटाय तुभ्यं
नमस्ते नमो दिव्य-रूपाय तुभ्यम्॥२७॥
नमस्ते नमो लोक-रक्षाय तुभ्यं
नमस्ते नमो दीन-रक्षाय तुभ्यम्।
नमस्ते नमो दैत्य-शिक्षाय तुभ्यं
नमस्ते नमो द्वादशाक्षाय तुभ्यम्॥२८॥
भुजङ्गाकृते त्वत्-प्रियार्थं मयेदं
भुजङ्ग-प्रयातेन वृत्तेन कॢप्तम्।
तव स्तोत्रमेतत् पवित्रं सु-पुण्यं
परानन्द-सन्दोह-संवर्धनाय॥२९॥
त्वदन्यत् परं दैवतं नाभिजाने
प्रभो पाहि सम्पूर्ण-दृष्ट्यानुगृह्य।
यथा-शक्ति भक्त्या कृतं स्तोत्रमेकं
विभो मेऽपराधं क्षमस्वाखिलेश॥३०॥
इदं तारकारेर्गुण-स्तोत्र-राजं
पठन्तस्त्रि-कालं प्रपन्ना जना ये।
सुपुत्राष्ट-भोगानिह त्वेव भुक्त्वा
लभन्ते तदन्ते परं स्वर्ग-भोगम्॥३१॥
॥ इति श्रीमत्-काञ्ची-कामकोटि-मूलाम्नाय-सर्वज्ञ-पीठाधिपति-जगद्गुरु-शङ्कराचार्य-श्रीमत्-सदाशिव-बोधेन्द्र-सरस्वती-श्रीचरण-अन्तेवासिवर्य-श्रीमत्-परमशिवेन्द्र-सरस्वती-श्रीचरण-विरचितं सुब्रह्मण्य-भुजङ्गं सम्पूर्णम् ॥