प्रज्ञाविवर्धन-कार्त्तिकेय-स्तोत्रम्
स्कन्द उवाच
योगीश्वरो महासेनः कार्त्तिकेयोऽग्निनन्दनः।
स्कन्दः कुमारः सेनानीः स्वामी शङ्करसम्भवः॥१॥
गाङ्गेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः।
तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः॥२॥
शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः।
सनत्कुमारो भगवान् भोगमोक्षफलप्रदः॥३॥
शरजन्मा गणाधीशपूर्वजो मुक्तिमार्गकृत्।
सर्वागमप्रणेता च वाञ्छितार्थप्रदायकः॥४॥
अष्टाविंशतिनामानि मदीयानीति यः पठेत्।
प्रत्यूषं श्रद्धया युक्तो मूको वाचस्पतिर्भवेत्॥५॥
महामन्त्रमयानीति मम नामानुकीर्तनम्।
महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा॥६॥
पुष्यनक्षत्रम् आरभ्य दशवारं पठेन्नरः।
पुष्यनक्षत्र-पर्यन्तेऽश्वत्थमूले दिने दिने।
पुरश्चरण-मात्रेण सर्वपापैः प्रमुच्यते॥७॥
॥इति श्री-रुद्रयामलरहस्ये प्रज्ञाविवर्धन-कार्त्तिकेय-स्तोत्रं सम्पूर्णम्॥