स्तोत्रसंहिताStotraSamhita
Stotra · Subrahmaṇya

प्रज्ञाविवर्धन-कार्त्तिकेय-स्तोत्रम्

Prajñāvivardhana-kārttikeya-stotram

About this stotra

A hymn to Kārttikeya for the growth of wisdom (prajñā), in the Anuṣṭubh metre.

स्कन्द उवाच

योगीश्वरो महासेनः कार्त्तिकेयोऽग्निनन्दनः।
स्कन्दः कुमारः सेनानीः स्वामी शङ्करसम्भवः॥१॥
गाङ्गेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः।
तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः॥२॥
शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः।
सनत्कुमारो भगवान् भोगमोक्षफलप्रदः॥३॥
शरजन्मा गणाधीशपूर्वजो मुक्तिमार्गकृत्।
सर्वागमप्रणेता च वाञ्छितार्थप्रदायकः॥४॥
अष्टाविंशतिनामानि मदीयानीति यः पठेत्।
प्रत्यूषं श्रद्धया युक्तो मूको वाचस्पतिर्भवेत्॥५॥
महामन्त्रमयानीति मम नामानुकीर्तनम्।
महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा॥६॥
पुष्यनक्षत्रम् आरभ्य दशवारं पठेन्नरः।
पुष्यनक्षत्र-पर्यन्तेऽश्वत्थमूले दिने दिने।
पुरश्चरण-मात्रेण सर्वपापैः प्रमुच्यते॥७॥

॥इति श्री-रुद्रयामलरहस्ये प्रज्ञाविवर्धन-कार्त्तिकेय-स्तोत्रं सम्पूर्णम्॥