गुहपञ्चरत्नम्
ओङ्कारनगरस्थं तं निगमान्तवनेश्वरम्।
नित्यमेकं शिवं शान्तं वन्दे गुहमुमासुतम्॥१॥
वाचामगोचरं स्कन्दं चिदुद्यानविहारिणम्।
गुरुमूर्तिं महेशानं वन्दे गुहमुमासुतम्॥२॥
सच्चिदनन्दरूपेशं संसारध्वान्तदीपकम्।
सुब्रह्मण्यमनाद्यन्तं वन्दे गुहमुमासुतम्॥३॥
स्वामिनाथं दयासिन्धुं भवाब्धेस्तारकं प्रभुम्।
निष्कलङ्कं गुणातीतं वन्दे गुहमुमासुतम्॥४॥
निराकारं निराधारं निर्विकारं निरामयम्।
निर्द्वन्द्वं च निरालम्बं वन्दे गुहमुमासुतम्॥५॥
॥इति श्री-गुहपञ्चरत्नं सम्पूर्णम्॥