स्तोत्रसंहिताStotraSamhita
Stotra · Śiva · Devī

उमामहेश्वरस्तोत्रम्

Umāmaheśvarastotram

About this stotra

The Umāmaheśvara Stotram of Ādi Śaṅkarācārya — salutations to Śiva and Pārvatī together, ’namaḥ śivābhyām'.
नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्याम्।
नगेन्द्रकन्यावृषकेतनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम्॥१॥
नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम्।
नारायणेनार्चितपादुकाभ्यां
नमो नमः शङ्करपार्वतीभ्याम्॥२॥
नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम्।
विभूतिपाटीरविलेपनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम्॥३॥
नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम्।
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम्॥४॥
नमः शिवाभ्यां परमौषधाभ्यां
पञ्चाक्षरी-पञ्जररञ्जिताभ्याम्।
प्रपञ्च-सृष्टि-स्थिति-संहृताभ्यां
नमो नमः शङ्करपार्वतीभ्याम्॥५॥
नमः शिवाभ्यामतिसुन्दराभ्याम्
अत्यन्तमासक्तहृदम्बुजाभ्याम्।
अशेषलोकैकहितङ्कराभ्यां
नमो नमः शङ्करपार्वतीभ्याम्॥६॥
नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम्।
कैलासशैलस्थितदेवताभ्यां
नमो नमः शङ्करपार्वतीभ्याम्॥७॥
नमः शिवाभ्यामशुभापहाभ्याम्
अशेषलोकैकविशेषिताभ्याम्।
अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यां
नमो नमः शङ्करपार्वतीभ्याम्॥८॥
नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम्।
राका-शशाङ्काभ-मुखाम्बुजाभ्यां
नमो नमः शङ्करपार्वतीभ्याम्॥९॥
नमः शिवाभ्यां जटिलन्धराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम्।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम्॥१०॥
नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम्।
शोभावती-शान्तवतीश्वराभ्यां
नमो नमः शङ्करपार्वतीभ्याम्॥११॥
नमः शिवाभ्यां पशुपालकाभ्यां
जगत्त्रयीरक्षण-बद्धहृद्भ्याम्।
समस्तदेवासुरपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम्॥१२॥
स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां
भक्त्या पठेद् द्वादशकं नरो यः।
स सर्वसौभाग्य-फलानि भुङ्क्ते
शतायुरन्ते शिवलोकमेति॥१३॥

॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ श्री-उमामहेश्वरस्तोत्रं सम्पूर्णम्॥