Stotra · Śiva
शिवमानसपूजा
Śivamānasapūjā
About this stotra
Ādi Śaṅkarācārya’s worship of Śiva performed entirely in the mind. Verse by verse it offers each of the upacāras in imagination: a jewelled seat, a bath in cool Himalayan water, divine garments, sandal paste, jasmine, campaka and bilva flowers, incense and lamp; then food in a golden vessel, tāmbūla, the parasol and the cāmara, the mirror, the music of the vīṇā, bherī and mṛdaṅga, song and dance, full prostration and praise. The fourth verse turns the whole of life into the pūjā: “You are my Self, Girijā my intellect, my prāṇas your attendants, my body your temple. Every enjoyment is your worship and sleep is samādhi; every step I walk is a pradakṣiṇa and every word I speak a hymn. Whatever I do, Śambhu, all of it is Your worship.” The last verse asks forgiveness for every fault of hand and foot, speech and body, done or left undone.Script
आराधयामि मणिसन्निभमात्मलिङ्गं
मायापुरीहृदयपङ्कजसन्निविष्टम्।
श्रद्धानदीविमलचित्तजलाभिषेकैर्-
नित्यं समाधिकुसुमैरपुनर्भवाय॥
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम्।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्॥१॥
सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम्।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु॥२॥
छत्त्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत् समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो॥३॥
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत् कर्म करोमि तत्तदखिलं शम्भो तवाऽऽराधनम्॥४॥
करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम्।
विहितमविहितं वा सर्वमेतत् क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो॥५॥
॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ श्री-शिवमानसपूजा सम्पूर्णा॥