शम्भुस्तुतिः

नमामि शम्भुं पुरुषं पुराणं
नमामि सर्वज्ञमपारभावम्।
नमामि रुद्रं प्रभुमक्षयं तं
नमामि शर्वं शिरसा नमामि॥१॥
नमामि देवं परमव्ययं तम्
उमापतिं लोकगुरुं नमामि।
नमामि दारिद्र्यविदारणं तं
नमामि रोगापहरं नमामि॥२॥
नमामि कल्याणमचिन्त्यरूपं
नमामि विश्वोद्भवबीजरूपम्।
नमामि विश्वस्थितिकारणं तं
नमामि संहारकरं नमामि॥३॥
नमामि गौरीप्रियमव्ययं तं
नमामि नित्यं क्षरमक्षरं तम्।
नमामि चिद्रूपममेयभावं
त्रिलोचनं तं शिरसा नमामि॥४॥
नमामि कारुण्यकरं भवस्य
भयङ्करं वाऽपि सदा नमामि।
नमामि दातारमभीप्सितानां
नमामि सोमेशमुमेशमादौ॥५॥
नमामि वेदत्रयलोचनं तं
नमामि मूर्तित्रयवर्जितं तम्।
नमामि पुण्यं सदसद्व्यतीतं
नमामि तं पापहरं नमामि॥६॥
नमामि विश्वस्य हिते रतं तं
नमामि रूपाणि बहूनि धत्ते।
यो विश्वगोप्ता सदसत्प्रणेता
नमामि तं विश्वपतिं नमामि॥७॥
यज्ञेश्वरं सम्प्रति हव्यकव्यं
तथागतिं लोकसदाशिवो यः।
आराधितो यश्च ददाति सर्वं
नमामि दानप्रियमिष्टदेवम्॥८॥
नमामि सोमेश्वरमस्वतन्त्रम्
उमापतिं तं विजयं नमामि।
नमामि विघ्नेश्वरनन्दिनाथं
पुत्रप्रियं तं शिरसा नमामि॥९॥
नमामि देवं भवदुःखशोक-
विनाशनं चन्द्रधरं नमामि।
नमामि गङ्गाधरमीशमीड्यम्
उमाधवं देववरं नमामि॥१०॥
नमाम्यजादीशपुरन्दरादि-
सुरासुरैरर्चितपादपद्मम्।
नमामि देवीमुखवादनानाम्
ईक्षार्थमक्षित्रितयं य ऐच्छत्॥११॥
पञ्चामृतैर्गन्धसुधूपदीपैर्-
विचित्रपुष्पैर्विविधैश्च मन्त्रैः।
अन्नप्रकारैः सकलोपचारैः
सम्पूजितं सोममहं नमामि॥१२॥

॥इति श्रीब्रह्ममहापुराणे त्रयोविंशाधिकशततमाध्यायान्तर्गता श्रीरामकृता शम्भुस्तुतिः सम्पूर्णा॥