Stotra · Śiva
मृत्युञ्जयमानसपूजास्तोत्रम्
Mṛtyuñjayamānasapūjāstotram
About this stotra
Ādi Śaṅkara Bhagavatpāda’s mānasa-pūjā to Śiva as Mṛtyuñjaya, the conqueror of death, worshipped together with Ambikā. What one may rightly ask of Bhagavān is an easy death and a life without want, and the means to both is unwavering devotion, which He alone can give: “anāyāsena maraṇaṃ vinā dainyena jīvanam, dehi me kṛpayā śambho tvayi bhaktim acañcalām”. Worship by the body counts for little if the mind is elsewhere, so here the whole pūjā is performed in the mind. After meditating on Him beneath the kalpa-tree on Kailāsa, with the Gaṅgā in His matted locks and Śeṣa at His throat, the stotra offers the upacāras one by one: seat, pādya, arghya, ācamana, madhuparka, the five-nectar bath, garments, sacred thread, sandal, akṣata, flowers, ornaments, cāmaras fanned by Gaṇeśa and Skanda, parasol, mirror, incense and lamp. Then comes a lavish naivedya of rice, sweets, vegetables, curd rice, payasam, fruits and buttermilk, then tāmbūla, nīrājana, puṣpāñjali, pradakṣiṇa (“protect me, protect me!”) and namaskāra, and finally rest on a soft bed, with Pārvatī tending His feet. The phalaśruti says that one who offers these forty-four upacāras, within and without, at dawn, noon and night, reaches the feet of Śrī Mṛtyuñjaya.Script
कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं
कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम्।
गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं
कण्ठालङ्कृतशेषभूषणममुं मृत्युञ्जयं भावये॥१॥
आगत्य मृत्युञ्जय चन्द्रमौले
व्याघ्राजिनालङ्कृत शूलपाणे।
स्वभक्तसंरक्षणकामधेनो
प्रसीद विश्वेश्वर पार्वतीश॥२॥
भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालङ्कृते
सौधे धूपसुवासिते मणिमये माणिक्यदीपाञ्चिते।
ब्रह्मेन्द्रामरयोगिपुङ्गवगणैर्युक्ते च कल्पद्रुमैः
श्रीमृत्युञ्जय सुस्थिरो भव विभो माणिक्यसिंहासने॥३॥
मन्दारमल्लीकरवीरमाधवी-
पुन्नागनीलोत्पलचम्पकान्वितैः।
कर्पूरपाटीरसुवासितैर्जलैः
आधत्स्व मृत्युञ्जय पाद्यमुत्तमम्॥४॥
सुगन्धपुष्पप्रकरैः सुवासितैः
वियन्नदीशीतलवारिभिः शुभैः।
त्रिलोकनाथार्तिहरार्घ्यमादरात्
गृहाण मृत्युञ्जय सर्ववन्दित॥५॥
हिमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः।
मृत्युञ्जय महादेव शुद्धाचमनमाचर॥६॥
गुडदधिसहितं मधुप्रकीर्णं
सुघृतसमन्वितधेनुदुग्धयुक्तम्।
शुभकर मधुपर्कमाहर त्वं
त्रिनयन मृत्युहर त्रिलोकवन्द्य॥७॥
पञ्चास्त्रशान्त पञ्चास्य पञ्चपातकसंहर।
पञ्चामृतस्नानमिदं कुरु मृत्युञ्जय प्रभो॥८॥
जगत्त्रयीख्यात समस्ततीर्थ-
समाहृतैः कल्मषहारिभिश्च।
स्नानं सुतोयैः समुदाचर त्वं
मृत्युञ्जयानन्तगुणाभिराम॥९॥
आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात्।
मार्जयामि जटाभारं शिव मृत्युञ्जय प्रभो॥१०॥
नानाहेमविचित्राणि चीरचीनाम्बराणि च।
विविधानि च दिव्यानि मृत्युञ्जय सुधारय॥११॥
विशुद्धमुक्ताफलजालरम्यं
मनोहरं काञ्चनहेमसूत्रम्।
यज्ञोपवीतं परमं पवित्रम्
आधत्स्व मृत्युञ्जय भक्तिगम्य॥१२॥
श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं
कालेयेन हिमाम्बुना विरचितं मन्दारसंवासितम्।
दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं
सर्वाङ्गेषु विलेपयामि सततं मृत्युञ्जय श्रीविभो॥१३॥
अक्षतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः।
मृत्युञ्जय महादेव पूजयामि वृषध्वज॥१४॥
चम्पकपङ्कजकुरवक-
कुन्दैः करवीरमल्लिकाकुसुमैः।
विस्तारय निजमकुटं
मृत्युञ्जय पुण्डरीकनयनाप्त॥१५॥
माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे।
पादौ सत्पद्मसदृशौ मृत्युञ्जय निवेशय॥१६॥
माणिक्यकेयूरकिरीटहारैः
काञ्चीमणिस्थापितकुण्डलैश्च।
मञ्जीरमुख्याभरणैर्मनोज्ञैः
अङ्गानि मृत्युञ्जय भूषयामि॥१७॥
गजवदनस्कन्दधृते-
नातिस्वच्छेन चामरयुगेन।
गलदलकाननपद्मं
मृत्युञ्जय भावयामि हृत्पद्मे॥१८॥
मुक्तातपत्रं शशिकोटिशुभ्रं
शुभप्रदं काञ्चनदण्डयुक्तम्।
माणिक्यसंस्थापितहेमकुम्भं
सुरेश मृत्युञ्जय तेऽर्पयामि॥१९॥
मणिमुकुरे निष्पटले
त्रिजगद्गाढान्धकारसप्ताश्वे।
कन्दर्पकोटिसदृशं
मृत्युञ्जय पश्य वदनमात्मीयम्॥२०॥
कर्पूरचूर्णं कपिलाज्यपूतं
दास्यामि कालेयसमन्वितं च।
समुद्भवं पावनगन्धधूपितं
मृत्युञ्जयाङ्गं परिकल्पयामि॥२१॥
वर्तित्रयोपेतमखण्डदीप्त्या
तमोहरं बाह्यमथान्तरं च।
साज्यं समस्तामरवर्गहृद्यं
सुरेश मृत्युञ्जय वंशदीपम्॥२२॥
राजान्नं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं
हिङ्गूजीरकसन्मरीचिमिलितैः शाकैरनेकैः शुभैः।
शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतं
श्रीमृत्युञ्जय पार्वतीप्रिय विभो सापोशनं भुज्यताम्॥२३॥
कूश्माण्डवार्ताकपटोलिकानां
फलानि रम्याणि च कारवल्ल्याः।
सुपाकयुक्तानि ससौरभाणि
श्रीकण्ठ मृत्युञ्जय भक्षयेश॥२४॥
शीतलं मधुरं स्वच्छं पावनं वासितं लघु।
मध्ये स्वीकुरु पानीयं शिव मृत्युञ्जय प्रभो॥२५॥
शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम्।
कदलीफलसम्मिश्रं भुज्यतां मृत्युसंहर॥२६॥
केवलमतिमाधुर्यं
दुग्धैः स्निग्धैश्च शर्करामिलितैः।
एलामरीचमिलितं
मृत्युञ्जय देव भुङ्क्ष्व परमान्नम्॥२७॥
रम्भाचूतकपित्थकण्टकफलैर्द्राक्षारसस्वादुमत्-
खर्जूरैर्मधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः।
कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभो
श्रीमृत्युञ्जय पूरय त्रिभुवनाधारं विशालोदरम्॥२८॥
मनोज्ञरम्भावनखण्डखण्डितान्
रुचिप्रदान् सर्षपजीरकांश्च।
ससौरभान् सैन्धवसेवितांश्च
गृहाण मृत्युञ्जय लोकवन्द्य॥२९॥
हिङ्गूजीरकसहितं
विमलामलकं कपित्थमतिमधुरम्।
बिसखण्डाँल्लवणयुतान्
मृत्युञ्जय तेऽर्पयामि जगदीश॥३०॥
एलाशुण्ठीसहितं
दध्यन्नं चारुहेमपात्रस्थम्।
अमृतप्रतिनिधिमाढ्यं
मृत्युञ्जय भुज्यतां त्रिलोकेश॥३१॥
जम्बीरनीराञ्चितशृङ्गबेरं
मनोहरानम्लशलाटुखण्डान्।
मृदूपदंशान् सहसोपभुङ्क्ष्व
मृत्युञ्जय श्रीकरुणासमुद्र॥३२॥
नागररामठयुक्तं
सुललितजम्बीरनीरसम्पूर्णम्।
मथितं सैन्धवसहितं
पिब हर मृत्युञ्जय क्रतुध्वंसिन्॥३३॥
मन्दारहेमाम्बुजगन्धयुक्तैः
मन्दाकिनीनिर्मलपुण्यतोयैः।
गृहाण मृत्युञ्जय पूर्णकाम
श्रीमत्परापोशनमभ्रकेश॥३४॥
गगनधुनीविमलजलैः
मृत्युञ्जय पद्मरागपात्रगतैः।
मृगमदचन्दनपूर्णैः
प्रक्षालय चारु हस्तपदयुग्मम्॥३५॥
पुन्नागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः।
मृत्युञ्जय महादेव पुनराचमनं कुरु॥३६॥
मौक्तिकचूर्णसमेतैः
मृगमदघनसारवासितैः पूगैः।
पर्णैः स्वर्णसमानैः
मृत्युञ्जय तेऽर्पयामि ताम्बूलम्॥३७॥
नीराजनं निर्मलदीप्तिमद्भिः
दीपाङ्कुरैरुज्ज्वलमुच्छ्रितैश्च।
घण्टानिनादेन समर्पयामि
मृत्युञ्जयाय त्रिपुरान्तकाय॥३८॥
विरिञ्चिमुख्यामरवृन्दवन्दिते
सरोजमत्स्याङ्कितचक्रचिह्निते।
ददामि मृत्युञ्जय पादपङ्कजे
फणीन्द्रभूषे पुनरर्घ्यमीश्वर॥३९॥
पुन्नागनीलोत्पलकुन्दजाती-
मन्दारमल्लीकरवीरपङ्कजैः।
पुष्पाञ्जलिं बिल्वदलैस्तुलस्या
मृत्युञ्जयाङ्घ्रौ विनिवेशयामि॥४०॥
पदे पदे सर्वतमोनिकृन्तनं
पदे पदे सर्वशुभप्रदायकम्।
प्रदक्षिणं भक्तियुतेन चेतसा
करोमि मृत्युञ्जय रक्ष रक्ष माम्॥४१॥
नमो गौरीशाय स्फटिकधवलाङ्गाय च नमो
नमो लोकेशाय स्तुतविबुधलोकाय च नमः।
नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो
नमः फालाक्षाय स्मरमदविनाशाय च नमः॥४२॥
संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते
नित्यं पुत्रकलत्रवित्तविलसत्पाशैर्निबद्धं दृढम्।
गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो
श्रीमृत्युञ्जय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर॥४३॥
सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे
कौशेयेन मनोहरेण धवलेनाच्छादिते सर्वशः।
कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये
पार्वत्याः करपद्मलालितपदं मृत्युञ्जयं भावये॥४४॥
चतुश्चत्वारिंशद्विलसदुपचारैरभिमतैः
मनःपद्मे भक्त्या बहिरपि च पूजां शुभकरीम्।
करोति प्रत्यूषे निशि दिवसमध्येऽपि च पुमान्
प्रयाति श्रीमृत्युञ्जयपदमनेकाद्भुतपदम्॥४५॥
प्रातर्लिङ्गमुमापतेरहरहः सन्दर्शनात् स्वर्गदं
मध्याह्ने हयमेधतुल्यफलदं सायन्तने मोक्षदम्।
भानोरस्तमये प्रदोषसमये पञ्चाक्षराराधनं
तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम्॥४६॥
॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ मृत्युञ्जयमानसपूजास्तोत्रं सम्पूर्णम्॥