कार्त्तिकसोमवारार्घ्यम्

सोमवारे दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश अर्पयामि सदाशिव॥१॥

साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नक्तं च सोमवारे च सोमनाथ जगत्पते।
अनन्तकोटिसौभाग्यं अक्षय्यं कुरु शङ्कर॥२॥

साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नमः सोमविभूषाय सोमायामिततेजसे।
इदमर्घ्यं प्रदास्यामि सोमो यच्छतु मे शिवम्॥३॥

साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

आकाशदिग्शरीराय ग्रहनक्षत्रमालिने।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥४॥

साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

अम्बिकायै नमस्तुभ्यं नमस्ते देवि पार्वति।
अनघे वरदे देवि गृहाणार्घ्यं प्रसीद मे॥५॥

पार्वत्यै नमः इदमर्घ्यम्। (त्रिः)

सुब्रह्मण्य महाभाग कार्त्तिकेय सुरेश्वर।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥६॥

सुब्रह्मण्याय नमः इदमर्घ्यम्। (त्रिः)

नन्दिकेश महाभाग शिवध्यानपरायण।
शैलादये नमस्तुभ्यं गृहाणार्घ्यमिदं प्रभो॥७॥

नन्दिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)

[नीलकण्ठ-पदाम्भोज-परिस्फुरित-मानस।
शम्भोः सेवाफलं देहि चण्डेश्वर नमोऽस्तु ते॥८॥

चण्डिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)]