स्तोत्रसंहिताStotraSamhita
Stotra · Śiva

द्वादशज्योतिर्लिङ्गस्तोत्रम्

Dvādaśajyotirliṅgastotram

Stotram

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरे॥१॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्।
सेतुबन्धे तु रामेशं नागेशं दारुकावने॥२॥
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे।
हिमालये तु केदारं घुसृणेशं शिवालये॥३॥
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥४॥

॥इति द्वादशज्योतिर्लिङ्गस्तोत्रं सम्पूर्णम्॥