स्तोत्रसंहिताStotraSamhita
Stotra · Śiva

दक्षिणामूर्तिस्तोत्रं वृषभदेवकृतम्

Dakṣiṇāmūrtistotraṃ Vṛṣabhadevakṛtam

About this stotra

A Dakṣiṇāmūrti Stotram composed by Vṛṣabhadeva.
अगणितगुणमप्रमेयमाद्यं
सकलजगत्स्थितिसंयमादिहेतुम्।
उपरतमनोयोगिहृन्मन्दिरन्त
सततमहं दक्षिणामूर्तिमीडे॥१॥
निरवधिसुखमिष्टदातारमीड्यं
नतजनमनस्तापभेदैकदक्षम्।
भवविपिनदवाग्निनामधेयं
सततमहं दक्षिणामूर्तिमीडे॥२॥
त्रिभुवनगुरुमागमैकप्रमाणं
त्रिजगत्कारणसूत्रयोगमायम्।
रविशतभास्वरमीहितप्रदानं
सततमहं दक्षिणामूर्तिमीडे॥३॥
अविरतभवभावनातिदूरं
पदपद्मद्वयभाविनामदूरम्।
भवजलधिसुतारणाङ्घ्रिपोतं
सततमहं दक्षिणामूर्तिमीडे॥४॥
कृतनिलयमनिशं वटाकमूले
निगमशिखाव्रातबोधितैकरूपम्।
धृतमुद्राङ्गुलिगम्यचारुबोधं
सततमहं दक्षिणामूर्तिमीडे॥५॥
द्रुहिणसुतपूजिताङ्घ्रिपद्मं
पदपद्मानतमोक्षदानदक्षम्।
कृतगुरुकुलवासयोगिमित्रं
सततमहं दक्षिणामूर्तिमीडे॥६॥
यतिवरहृदये सदा विभान्तं
रतिपतिशतकोटिसुन्दराङ्गमाद्यम्।
परहितनिरतात्मनां सुसेव्यं
सततमहं दक्षिणामूर्तिमीडे॥७॥
स्मितधवलविकासिताननाब्जं
श्रुतिसुलभं वृषभाधिरूढगात्रम्।
सितजलजसुशोभदेहकान्तिं
सततमहं दक्षिणामूर्तिमीडे॥८॥
वृषभकृतमिदमिष्टसिद्धिदं
गुरुवरदेवसन्निधौ पठेद् यः।
सकलदुरितदुःखवर्गहानिं
व्रजति चिरं ज्ञानवान् शम्भुलोकम्॥९॥

॥इति श्रीमद्वृषभदेवकृतं दक्षिणामूर्तिस्तोत्रं सम्पूर्णम्॥