दक्षिणामूर्तिस्तोत्रम् समरपुङ्गवदीक्षितकृतम्
आधिक्यम् अस्माज्जगतोऽधिगन्तुं विश्वाधिकोक्तेर्विषयं प्रपद्ये।
कालग्रहग्राहभयापनुत्त्यै कृतान्तशिक्षाकृतिनं प्रपद्ये॥१॥
शृङ्गारभूजृम्भणवारणाय प्रसूनकोदण्डरिपुं प्रपद्ये।
विनेतुम् आर्तिं विषयाध्वजन्यां वटद्रुमाधोवसतिं प्रपद्ये॥२॥
मोहातिरेकस्मयमोषणाय पादार्दितापस्मरणं प्रपद्ये।
कर्माटवीपाटनकौतुकेन पाणौ विराजत्परशुं प्रपद्ये॥३॥
विशुद्धविज्ञानविकासहेतोः प्रबोधमुद्राभरितं प्रपद्ये।
तापत्रयाटोपसमापनाय प्रालेयधामाभरणं प्रपद्ये॥४॥
वैमल्यसम्पादनवाञ्छयाऽहं मन्दाकिनीमाल्यधरं प्रपद्ये।
प्रसादलाभं परम् ईहमानो मुग्धस्मितोल्लासिमुखं प्रपद्ये॥५॥
व्यथाम् अशेषाम् अपनेतुकामो नाम्ना मृडं नाथम् अहं प्रपद्ये।
अनाद्यविद्याशमनं प्रपद्ये नाम्ना महिम्नाऽपि च शङ्करं त्वाम्१॥६॥
सर्वज्ञतासारभृतं प्रपद्ये निस्सीमसौहित्यनिधिं प्रपद्ये।
अनादिबोधायतनं प्रपद्ये स्वतन्त्रतायाः सदनं प्रपद्ये॥७॥
हरं प्रपद्येऽहम् अलुप्तशक्तिम् अमेयसामर्थ्यम् अहं प्रपद्ये।
शिवं प्रपद्ये जनकं विधातुः ईशं हृषीकेशगुरुं प्रपद्ये॥८॥
एवं प्रपत्तिम् ईशाने तन्वते तत्त्वदर्शिनः।
तत्क्रतुन्यायरसिकाः तत्तादृशफलाप्तये॥९॥
१एतत् श्लोकार्धं श्रीचन्द्रशेखरेन्द्रसरस्वतीश्रीपादैः पूरितम् इति मद्रपुरीवास्तव्यैः प्राध्यापकवीऴिनाथमहाभागैः निवेदितम्।
॥इति श्री-समरपुङ्गवदीक्षितकृतयात्राप्रबन्धग्रन्थे विद्यमानं श्री-दक्षिणामूर्तिस्तोत्रम् सम्पूर्णम्॥