व्यासाष्टोत्तरशतनामस्तोत्रम्

नारायणकुलोद्भूतो नारायणपरो वरः।
नारायणावतारश्च नारायणवशंवदः॥१॥
स्वयम्भूवंशसम्भूतो वसिष्ठकुलदीपकः।
शक्तिपौत्रः पापहन्ता पराशरसुतोऽमलः॥२॥
द्वैपायनो मातृभक्तः शिष्टः सत्यवतीसुतः।
स्वयमुद्भूतवेदश्च चतुर्वेदविभागकृत्॥३॥
महाभारतकर्ता च ब्रह्मसूत्रप्रजापतिः।
अष्टादशपुराणानां कर्ता श्यामः प्रशिष्यकः॥४॥
शुकतातः पिङ्गजटः प्रांशुर्दण्डी मृगाजिनः।
वश्यवाग् ज्ञानदाता च शङ्करायुःप्रदः शुचिः॥५॥
मातृवाक्यकरो धर्मी कर्मी तत्त्वार्थदर्शकः।
सञ्जयज्ञानदाता च प्रतिस्मृत्युपदेशकः॥६॥
सर्वधर्मोपदेष्टा च मृतदर्शनपण्डितः।
विचक्षणः प्रहृष्टात्मा पर्वपूज्यः प्रभुर्मुनिः॥७॥
वीरो विश्रुतविज्ञानः प्राज्ञश्चाज्ञाननाशनः।
ब्राह्मकृत् पाद्मकृद् धीरो विष्णुकृच्छिवकृत् तथा॥८॥
श्रीभागवतकर्ता च भविष्यरचनादरः।
नारदाख्यस्य कर्ता च मार्कण्डेयकरोऽग्निकृत्॥९॥
ब्रह्मवैवर्तकर्ता च लिङ्गकृच्च वराहकृत्।
स्कान्दकर्ता वामनकृत् कूर्मकर्ता च मत्स्यकृत्॥१०॥
गरुडाख्यस्य कर्ता च ब्रह्माण्डाख्यपुराणकृत्।
उपपुराणानां कर्ता पुराणः पुरुषोत्तमः॥११॥
काशिवासी ब्रह्मनिधिर्गीतादाता महामतिः।
सर्वज्ञः सर्वसिद्धिश्च सर्वशास्त्रप्रवर्तकः॥१२॥
सर्वाश्रयः सर्वहितः सर्वः सर्वगुणाश्रयः।
विशुद्धः शुद्धिकृद् दक्षो विष्णुभक्तः शिवार्चकः॥१३॥
देवीभक्तः स्कन्दरुचिर्गणेशादृच्च योगवित्।
पैलाचार्य ऋचः कर्ता शाकल्यार्यश्च याजुषः॥१४॥
जैमिन्यार्यः सामकर्ता सुमन्त्वार्योऽप्यथर्वकृत्।
रोमहर्षणसूतार्यो लोकाचार्यो महामुनिः॥१५॥
व्यासकाशीरतिर्विश्वपूज्यो विश्वेशपूजकः।
शान्तः शान्ताकृतिः शान्तचित्तः शान्तिप्रदस्तथा॥१६॥

॥इति व्यासाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥