स्तोत्रसंहिताStotraSamhita
Stotra · Veṅkaṭeśa

वेङ्कटेशाष्टोत्तरशतनामस्तोत्रम्

Veṅkaṭeśāṣṭottaraśatanāmastotram

About this stotra

The 108 names of Lord Veṅkaṭeśa, especially dear on the Saturdays of Purattāsi, hold a secret: take the first syllable of each name, in order, and together they spell a mantra, “oṃ namo veṅkaṭeśāya … śrīṃ klīṃ sauṃ … namo nārāyaṇa te svāhā”. The bīja syllables śrīṃ, klīṃ and sauṃ stand as names in the stotra itself.

Shatanama Stotram

सिद्धा ऊचुः

भगवन् वेङ्कटेशस्य नाम्नामष्टोत्तरं शतम्।
अनुब्रूहि दयासिन्धो क्षिप्रसिद्धिप्रदं नृणाम्॥

नारद उवाच

सावधानेन मनसा शृण्वन्तु तदिदं शुभम्।
जप्तं वैखानसैः पूर्वं सर्वसौभाग्यवर्धनम्॥

स्तोत्रम्

ओङ्कारपरमार्थश्च नरनारायणात्मकः।
मोक्षलक्ष्मीप्राणकान्तो वेङ्कटाचलनायकः॥१॥
करुणापूर्णहृदयः टेङ्कारजपसौख्यदः।
शास्त्रप्रमाणगम्यश्च यमाद्यष्टाङ्गगोचरः॥२॥
भक्तलोकैकवरदो वरेण्यो भयनाशनः।
यजमानस्वरूपश्च हस्तन्यस्तसुदर्शनः॥३॥
रमावताररङ्गेशो णाकारजपसुप्रियः।
यज्ञेशो गतिदाता च जगतीवल्लभो वरः॥४॥
रक्षःसन्दोहसंहर्ता वर्चस्वी रघुपुङ्गवः।
दानधर्मपरो याजी घनश्यामलविग्रहः॥५॥
हरादिसर्वदेवेड्यो रामो यदुकुलाग्रणीः।
श्रीनिवासो महात्मा च तेजस्वी तत्त्वसन्निधिः॥६॥
त्वमर्थलक्ष्यरूपश्च रूपवान् पावनो यशः।
सर्वेशः कमलाकान्तो लक्ष्मीसल्लापसम्मुखः॥७॥
चतुर्मुखप्रतिष्ठाता राजराजवरप्रदः।
चतुर्वेदशिरोरत्नं रमणो नित्यवैभवः॥८॥
दासवर्गपरित्राता नारदादिमुनिस्तुतः।
यादवाचलवासी च खिद्यद्भक्तार्तिभञ्जनः॥९॥
लक्ष्मीप्रसादको विष्णुर्देवेशो रम्यविग्रहः।
माधवो लोकनाथश्च लालिताखिलसेवकः॥१०॥
यक्षगन्धर्ववरदः कुमारो मातृकार्चितः।
रटद्बालकपोषी च शेषशैलकृतस्थलः॥११॥
षाड्गुण्यपरिपूर्णश्च द्वैतदोषनिवारणः।
तिर्यग्जन्त्वर्चिताङ्घ्रिश्च नेत्रानन्दकरोत्सवः॥१२॥
द्वादशोत्तमलीलश्च दरिद्रजनरक्षकः।
शत्रुकृत्यादिभीतिघ्नो भुजङ्गशयनप्रियः॥१३॥
जाग्रद्रहस्यावासो यः शिष्टानां परिपालकः।
वरेण्यः पूर्णबोधश्च जन्मसंसारभेषजम्॥१४॥
कार्त्तिकेयवपुर्धारी यतिशेखरभावितः।
नरकादिभयध्वंसी रथोत्सवकलाधरः॥१५॥
लोकार्चामुख्यमूर्तिश्च केशवाद्यवतारवान्।
शास्त्रश्रुतानन्तलीलो यमशिक्षानिबर्हणः॥१६॥
मानसंरक्षणपर इरिणाङ्कुरधान्यदः।
नेत्रहीनाक्षिदायी च मतिहीनमतिप्रदः॥१७॥
हिरण्यदानसङ्ग्राही मोहजालनिकृन्तनः।
दधिलाजाक्षतार्च्यश्च यातुधानविनाशनः॥१८॥
यजुर्वेदशिखागम्यो वेङ्कटो दक्षिणास्थितः।
सारपुष्करणीतीरो रात्रौदेवगणार्चितः॥१९॥
यत्नवत्फलसन्धाता श्रीञ्जपाद्धनवृद्धिकृत्।
क्लीङ्कारजापिकाम्यार्थप्रदानसदयान्तरः॥२०॥
सौं सर्वसिद्धिसन्धाता नमस्कर्तुरभीष्टदः।
मोहिताखिललोकश्च नानारूपव्यवस्थितः॥२१॥
राजीवलोचनो यज्ञवराहो गणवेङ्कटः।
तेजोराशीक्षणः स्वामी हार्दाविद्यानिवारणः॥२२॥
इति श्रीवेङ्कटेशस्य नाम्नामष्टोत्तरं शतम्।
प्रातः प्रातः समुत्थाय यः पठेद् भक्तिमान् नरः।
सर्वेष्टार्थानवाप्नोति वेङ्कटेशप्रसादतः॥

नामावल्याः प्रत्येकनाम्नः प्रथमाक्षर-संयोजनेन—ओं नमो वेङ्कटेशाय
भवभयहरणाय
गजवरवरदायाघहराय
श्रीमते तत्त्वरूपाय
सकलचराचरनिदानायाखिलविदे
रमालोलाय
कुमारशेषाद्वैतिने
द्वादशभुजाय
शिवपूजकाय
नरलोकेशाय
मायिने
महिमोदयाय
वेदसाराय
श्रीं क्लीं सौं
नमो नारायण ते स्वाहा—इति मन्त्रम् उपलभ्यते।

॥इति श्री-वेङ्कटेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥