Shatanama Stotram

सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्

ध्यानम्

शक्तिहस्तं विरूपाक्षं शिखिवाहं षडाननम्।
दारुणं रिपुरोगघ्नं भावये कुक्कुटध्वजम्॥

स्तोत्रम्

स्कन्दो गुहः षण्मुखश्च फालनेत्रसुतः प्रभुः।
पिङ्गलः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः॥१॥
द्विषण्णेत्रः शक्तिधरः पिशिताशप्रभञ्जनः।
तारकासुरसंहारी रक्षोबलविमर्दनः॥२॥
मत्तः प्रमत्तोन्मत्तश्च सुरसैन्यसुरक्षकः।
देवसेनापतिः प्राज्ञः कृपालुर्भक्तवत्सलः॥३॥
उमासुतः शक्तिधरः कुमारः क्रौञ्चदारणः।
सेनानीरग्निजन्मा च विशाखः शङ्करात्मजः॥४॥
शिवस्वामी गणस्वामी सर्वस्वामी सनातनः।
अनन्तमूर्तिरक्षोभ्यः पार्वतीप्रियनन्दनः॥५॥
गङ्गासुतः शरोद्भूत आहूतः पावकात्मजः।
जृम्भः प्रजृम्भ उज्जृम्भः कमलासनसंस्तुतः॥६॥
एकवर्णो द्विवर्णश्च त्रिवर्णः सुमनोहरः।
चतुर्वर्णः पञ्चवर्णः प्रजापतिरहःपतिः॥७॥
अग्निगर्भः शमीगर्भो विश्वरेता सुरारिहा।
हरिद्वर्णः शुभकरो वटुश्च पटुवेषभृत्॥८॥
पूषा गभस्तिर्गहनश्चन्द्रवर्णः कलाधरः।
मायाधरो महामायी कैवल्यः शङ्करात्मजः॥९॥
विश्वयोनिरमेयात्मा तेजोयोनिरनामयः।
परमेष्ठी परब्रह्म वेदगर्भो विराट्सुतः॥१०॥
पुलिन्दकन्याभर्ता च महासारस्वतावृतः।
आश्रिताखिलदाता च चोरघ्नो रोगनाशनः॥११॥
अनन्तमूर्तिरानन्दः शिखण्डी-कृतकेतनः।
डम्भः परमडम्भश्च महाडम्भो वृषाकपिः॥१२॥
कारणोत्पत्ति-देहश्च कारणातीत-विग्रहः।
अनीश्वरोऽमृतः प्राणः प्राणायामपरायणः॥१३॥
विरुद्धहन्तो वीरघ्नो रक्तश्यामगलोऽपि च।
सुब्रह्मण्यो गुहः प्रीतो ब्रह्मण्यो ब्राह्मणप्रियः।
वंशवृद्धिकरो वेदवेद्योऽक्षयफलप्रदः॥१४॥

॥इति श्री-सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥