Shatanama Stotram

शक्त्यष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रम्

दक्ष उवाच

एवमुक्तोऽब्रवीद् दक्षः केषु केषु मयाऽनघे।
तीर्थेषु च त्वं द्रष्टव्या स्तोतव्या कैश्च नामभिः॥

देव्युवाच

सर्वगा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि।
सप्तलोकेषु यत्किञ्चिद् रहितं न मया विना॥
तथाऽपि येषु स्थानेषु द्रष्टव्याः सिद्धिमीप्सुभिः।
स्मर्तव्या भूतिकामैर्वा तानि वक्ष्यामि तत्त्वतः॥

स्तोत्रम्

वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी।
प्रयागे ललिता देवी कामुका गन्धमादने॥१॥
मानसे कुमुदा नाम विश्वकाया तथेश्वरे।
गोमन्ते गोमती नाम मन्दरे कामचारिणी॥२॥
मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे।
कान्यकुब्जे तथा गौरी रम्भा मलयपर्वते॥३॥
एकाम्रके कीर्तिमती विश्वां विश्वेश्वरे विदुः।
पुष्करे पुरुहूतेति केदारे मार्गदायिनी॥४॥
नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका।
स्थानेश्वरे भवानी तु बिल्वके बिल्वपत्रिका॥५॥
श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा।
जया वराहशैले तु कमला कमलालये॥६॥
रुद्रकोट्यां च रुद्राणी काली कालञ्जरे गिरौ।
महालिङ्गे तु कपिला मर्कोटे मुकुटेश्वरी॥७॥
शालग्रामे महादेवी शिवलिङ्गे जलप्रिया।
मायापुर्यां कुमारी तु सन्ताने ललिता तथा॥८॥
उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला।
गयायां मङ्गला नाम विमला पुरुषोत्तमे॥९॥
विपाशायामघोराक्षी पाटला पुण्ड्रवर्धने।
नारायणी सुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी॥१०॥
विपुले विपुला नाम कल्याणी मलयाचले।
कौटवी कोटितीर्थेषु सुगन्धा माधवे वने॥११॥
गोदाश्रमे त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया।
शिवकुण्डे शिवानन्दा नन्दिनी देविकातटे॥१२॥
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने।
देवकी मथुरायां तु पाताले परमेश्वरी॥१३॥
चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी।
सह्यद्वारे करीरा तु हरिश्चन्द्रे तु चन्द्रिका॥१४॥
रमणा रामतीर्थे तु यमुनायां मृगावती।
करवीरे महालक्ष्मीरुमादेवी विनायके॥१५॥
अरोगा वैद्यनाथे तु महाकाले महेश्वरी।
अभयेत्युष्णतीर्थेषु चामृता विन्ध्यकन्दरे॥१६॥
माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरे पुरे।
छागलाण्डे प्रचण्डा तु चण्डिकामरकण्टके॥१७॥
सोमेश्वरे वरारोहा प्रभासे पुष्करावती।
देवमाता सरस्वत्यां पारा पारातटे मता॥१८॥
महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी।
सिंहिका कृतशौचे तु कार्त्तिकेये तु शङ्करी॥१९॥
उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे।
महासिद्धवने लक्ष्मीरनङ्गा भरताश्रमे॥२०॥
जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते।
देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले॥२१॥
भीमादेवी हिमाद्रौ तु पुष्टिर्विश्वेश्वरे तथा।
कपालमोचने शुद्धिर्माता कायावरोहणे॥२२॥
शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा।
काला तु चन्द्रभागायामच्चोदे शिवकारिणी॥२३॥
वेणायाममृता नाम बदर्याम् उर्वशी तथा।
औषधी चोत्तरकुरौ कुशद्वीपे कुशोदका॥२४॥
मन्मथा हेमकूटे तु मुकुटे सत्यवादिनी।
अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये॥२५॥
गायत्री वेदवदने पार्वती शिवसन्निधौ।
देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती॥२६॥
सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी तथा।
अरुन्धती सतीनां तु रामासु च तिलोत्तमा॥२७॥
चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम्।
एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम्॥२८॥
अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम्।
यः पठेच्छृणुयाद्वाऽपि सर्वपापैः प्रमुच्यते॥२९॥
एषु तीर्थेषु यः कृत्वा स्नानं पश्यन्ति मां नरः।
सर्वपापविनिर्मुक्तः कल्पं शिवपुरे वसेत्॥३०॥
यस्तु मत्परमः कालं करोत्येतेषु मानवः।
स भित्त्वा ब्रह्मसदनं पदमभ्येति शाङ्करम्॥३१॥
नामाष्टशतकं यस्तु श्रावयेच्छिवसन्निधौ।
तृतीयायामथाष्टम्यां बहुपुत्रो भवेन्नरः॥३२॥
गोदाने श्राद्धकाले वा अहन्यहनि वा पुनः।
देवार्चनविधौ विद्वान् पठन् ब्रह्माधिगच्छति॥३३॥
एवं वदन्ती सा तत्र ददाहात्मानमात्मना।
स्वायम्भुवेऽपि काले च दक्षप्राचेतसोऽभवत्॥३४॥
पार्वती चाभवद् देवी शिवदेहार्धधारिणी।
मेनागर्भसमुत्पन्ना भुक्तिमुक्तिफलप्रदा॥३५॥
अरुन्धती जपन्त्येतत्तदाप्ता योगमुत्तमम्।
पुरूरवाश्च राजर्षिर्लोकेषु जयतामगात्॥३६॥
ययातिः पुत्रलाभं तु धनलाभं तु भार्गवः।
तथाऽन्ये देवदैत्याश्च ब्राह्मणाः क्षत्रियास्तथा।
वैश्याः शूद्राश्च बहवः सिद्धिमीयुर्यथेप्सिताम्॥३७॥
यत्रेतल्लिखितं तिष्ठेत् पूज्यते देवसन्निधौ।
न तत्र शोकदौर्गत्यं कदाचिदपि जायते॥३८॥

॥इति श्रीमत्स्यमहापुराणे त्रयोदशेऽध्याये श्री-शक्त्यष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रं सम्पूर्णम्॥