रामाष्टोत्तरशतनामस्तोत्रम्
ध्यानम्
श्रीराघवं दशरथात्मजमप्रमेयं
सीतापतिं रघुकुलान्वयरत्नदीपम्।
आजानुबाहुमरविन्ददलायताक्षं
रामं निशाचरविनाशकरं नमामि॥
स्तोत्रम्
श्रीरामो रामचन्द्रश्च रामभद्रश्च शाश्वतः।
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः॥१॥
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः।
विश्वामित्रप्रियो दान्तः शरण्यत्राणतत्परः॥२॥
वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः।
सत्यव्रतो व्रतधरः सदा हनुमदाश्रयः॥३॥
कौसलेयः खरध्वंसी विराधवधपण्डितः।
विभीषणपरित्राता हरकोदण्डखण्डनः॥४॥
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः।
जामदग्न्यमहादर्पदलनस्ताडकान्तकृत्॥५॥
वेदान्तपारो वेदात्मा भवबन्धैकभेषजः।
दूषणत्रिशिरोरिश्च त्रिमूर्तिस्त्रिगुणस्त्रयी॥६॥
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः।
त्रिलोकरक्षको धन्वी दण्डकारण्यवासकृत्॥७॥
अहल्यापावनश्चैव पितृभक्तो वरप्रदः।
जितेन्द्रियो जितक्रोधो जितलोभो जगद्गुरुः॥८॥
ऋक्षवानरसङ्घाती चित्रकूटसमाश्रयः।
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः॥९॥
सर्वदेवाधिदेवश्च मृतवानरजीवनः।
मायामारीचहन्ता च महाभोगो महाभुजः॥१०॥
सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसत्तमः।
महायोगो महोदारः सुग्रीवस्थिरराज्यदः॥११॥
सर्वपुण्याधिकफलः स्मृतः सर्वाघनाशनः।
आदिपुरुषो महापुरुषः परमः पुरुषस्तथा॥१२॥
पुण्योदयो महासारः पुराणः पुरुषोत्तमः।
स्मितवक्त्रो मितभाषी पूर्वभाषी च राघवः॥१३॥
अनन्तगुणगम्भीरो धीरो दान्तगुणोत्तमः।
मायामानुषचारित्रो महादेवाभिपूजितः॥१४॥
सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः।
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः॥१५॥
सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः।
शिवलिङ्गप्रतिष्ठाता सर्वाघगणवर्जितः॥१६॥
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः।
परञ्ज्योतिः परन्धाम पराकाशः परात्परः॥१७॥
परेशः पारगः पारः सर्वभूतात्मकः शिवः।
इति श्रीरामचन्द्रस्य नाम्नामष्टोत्तरं शतम्॥१८॥
फलश्रुतिः
गुह्याद् गुह्यतरं देवि तव स्नेहात् प्रकीर्तितम्।
यः पठेच्छृणुयाद् वाऽपि भक्तियुक्तेन चेतसा॥१॥
स सर्वैर्मुच्यते पापैः कल्पकोटिशतोद्भवैः।
जलानि स्थलतां यान्ति शत्रवो यान्ति मित्रताम्॥२॥
राजानो दासतां यान्ति वह्नयो यान्ति सौम्यताम्।
आनुकूल्यं च भूतानि स्थैर्यं यान्ति चलाः श्रियः॥३॥
अनुग्रहं ग्रहा यान्ति शान्तिमायान्त्युपद्रवाः।
पठतो भक्तिभावेन नरस्य गिरिसम्भवे॥४॥
यः पठेत् परया भक्त्या तस्य वश्यं जगत्त्रयम्।
यं यं कामं प्रकुरुते तं तमाप्नोति कीर्तनात्॥५॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च।
वैकुण्ठे मोदते नित्यं दशपूर्वैर्देशापरैः॥६॥
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम्।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो जनाः॥७॥
रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥८॥
इमं मन्त्रं महादेवि जपन्नेव दिवानिशम्।
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात्॥९॥
॥इति श्री-पाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे रामचन्द्राष्टोत्तरशतनामकथनं नामैकाशीत्यधिकद्विशततमेऽध्याये श्रीरामचन्द्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥