Shatanama Stotram

नृसिंहाष्टोत्तरशतनामस्तोत्रम्

नारसिंहो महासिंहो दिव्यसिंहो महाबलः।
उग्रसिंहो महादेवः स्तम्भजश्चोग्रलोचनः॥१॥
रौद्रः सर्वाद्भुतः श्रीमान् योगानन्दस्त्रिविक्रमः।
हरिः कोलाहलश्चक्री विजयो जयवर्धनः॥२॥
पञ्चाननः परब्रह्म अघोरो घोरविक्रमः।
ज्वालामुखो ज्वालामाली महाज्वालो महाप्रभुः॥३॥
निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः।
महादंष्ट्रायुधः प्राज्ञश्चण्डकोपी सदाशिवः॥४॥
हिरण्यकशिपुध्वंसी दैत्यदानवभञ्जनः।
गुणभद्रो महाभद्रो बलभद्रो सुभद्रकः॥५॥
करालो विकरालश्च विकर्ता सर्वकर्तृकः।
शिंशुमारस्त्रिलोकात्मा ईशः सर्वेश्वरो विभुः॥६॥
भैरवाडम्बरो दिव्यश्चाच्युतः कविमाधवः।
अधोक्षजोऽक्षरः शर्वो वनमाली वरप्रदः॥७॥
विश्वम्भरोऽद्भुतो भव्यो विष्णुश्च पुरुषोत्तमः।
अमोघास्त्रो नखास्त्रश्च सूर्यज्योतिः सुरेश्वरः॥८॥
सहस्रबाहुः सर्वज्ञः सर्वसिद्धिप्रदायकः।
वज्रदंष्ट्रो वज्रनखो महानादः परन्तपः॥९॥
सर्वमन्त्रैकरूपश्च सर्वयन्त्रविदारणः।
सर्वतन्त्रात्मकोऽव्यक्तः सुव्यक्तो भक्तवत्सलः॥१०॥
वैशाखशुक्लसम्भूतः शरणागतवत्सलः।
उदारकीर्तिः पुण्यात्मा महात्मा चण्डविक्रमः॥११॥
वेदत्रयप्रपूज्यश्च भगवान् परमेश्वरः।
श्रीवत्साङ्कः श्रीनिवासो जगद्व्यापी जगन्मयः॥१२॥
जगत्पालो जगन्नाथो महाकायो द्विरूपभृत्।
परमात्मा परञ्ज्योतिर्निर्गुणश्च नृकेसरी॥१३॥
परतत्त्वं परन्धाम सच्चिदानन्दविग्रहः।
लक्ष्मीनृसिंहः सर्वात्मा धीरः प्रह्लादपालकः॥१४॥

॥इति श्री-नृसिंहाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥