लक्ष्म्यष्टोत्तरशतनामस्तोत्रम्
ध्यानम्
वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम्।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेवितां
पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः॥
सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम्॥
स्तोत्रम्
प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदाम्।
श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम्॥१॥
वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम्।
धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीम्॥२॥
अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम्।
नमामि कमलां कान्तां क्षमां क्षीरोदसम्भवाम्॥३॥
अनुग्रहप्रदां बुद्धिमनघां हरिवल्लभाम्।
अशोकाममृतां दीप्तां लोकशोकविनाशिनीम्॥४॥
नमामि धर्मनिलयां करुणां लोकमातरम्।
पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीम्॥५॥
पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम्।
पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीम्॥६॥
पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम्।
नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीम्॥७॥
चतुर्भुजां चन्द्ररूपामिन्दिरामिन्दुशीतलाम्।
आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीम्॥८॥
विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीम्।
प्रीतिपुष्करिणीं शान्तां शुक्लमाल्याम्बरां श्रियम्॥९॥
भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम्।
वसुन्धरामुदाराङ्गां हरिणीं हेममालिनीम्॥१०॥
धनधान्यकरीं सिद्धिं स्त्रैणसौम्यां शुभप्रदाम्।
नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदाम्॥११॥
शुभां हिरण्यप्राकारां समुद्रतनयां जयाम्।
नमामि मङ्गलां देवीं विष्णुवक्षःस्थलस्थिताम्॥१२॥
विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रिताम्।
दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रवहारिणीम्॥१३॥
नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम्।
त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरीम्॥१४॥
लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं
दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम्।
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां
त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम्॥१५॥
मातर्नमामि कमले कमलायताक्षि
श्रीविष्णुहृत्कमलवासिनि विश्वमातः।
क्षीरोदजे कमलकोमलगर्भगौरि
लक्ष्मि प्रसीद सततं नमतां शरण्ये॥१६॥
फलश्रुतिः
त्रिकालं यो जपेद् विद्वान् षण्मासं विजितेन्द्रियः।
दारिद्र्यध्वंसनं कृत्वा सर्वमाप्नोत्ययत्नतः॥१७॥
देवीनामसहस्रेषु पुण्यमष्टोत्तरं शतम्।
येन श्रियमवाप्नोति कोटिजन्मदरिद्रितः॥१८॥
भृगुवारे शतं धीमान् पठेद् वत्सरमात्रकम्।
अष्टैश्वर्यमवाप्नोति कुबेर इव भूतले॥१९॥
दारिद्र्यमोचनं नाम स्तोत्रमम्बापरं शतम्।
येन श्रियमवाप्नोति कोटिजन्मदरिद्रितः॥२०॥
भुक्त्वा तु विपुलान् भोगानस्याः सायुज्यमाप्नुयात्।
प्रातःकाले पठेन्नित्यं सर्वदुःखोपशान्तये।
पठंस्तु चिन्तयेद् देवीं सर्वाभरणभूषिताम्॥२१॥
॥इति श्री-लक्ष्म्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥