Stotra · Kubera
தன ஆகர்ஷண குபேர யந்திர பூஜையும் மந்திரமும்
Kuberāṣṭottaraśatanāmastotram
Script
(मूलम्—एस्. शेषाद्रि, ``धन-आकर्षण-कुबेर-यन्त्र-पूजा मन्त्रश्च'' (श्रीरङ्गम्, १९९४), पृ. १६–१७)
कुबेरो धनदः श्रीमान् यक्षेशो गुह्यकेश्वरः।
निधीशः शङ्करसखो महालक्ष्मीनिवासभूः॥१॥
महापद्मनिधीशश्च पूर्णः पद्मनिधीश्वरः।
शङ्खाख्यनिधिनाथश्च मकराख्यनिधिप्रियः॥२॥
सुकच्छपनिधीशश्च मुकुन्दनिधिनायकः।
कुन्दाख्यनिधिनाथश्च नीलनिध्यधिपो महान्॥३॥
वरनिध्यधिपः पूज्यो लक्ष्मीसाम्राज्यदायकः।
तथैवेलपिलापत्यः कोशाधीशः कुलोचितः॥४॥
अश्वारूढो विश्ववन्द्यो विशेषज्ञो विशारदः।
नलकूबरतातश्च मणिग्रीवपिता तथा॥५॥
गूढमन्त्रो वैश्रवणश्चित्रलेखामनःप्रियः।
एकपिङ्गोऽलकाधीशः पौलस्त्यो नरवाहनः॥६॥
कैलासशैलनिलयो राज्यदो रावणाग्रजः।
चित्रचैत्ररथोद्यानविहारसुकुतूहलः॥७॥
महोत्साहो महाप्राज्ञः सदापुष्पकवाहनः।
सार्वभौमोऽङ्गनाथश्च सोमः सौम्यदिगीश्वरः॥८॥
पुण्यात्मा पुरुहूतश्रीः सर्वपुण्यजनेश्वरः।
नित्यकीर्तिर्निधिवेत्ता लङ्काप्राक्तननायकः॥९॥
यक्षः परमशान्तात्मा यक्षराड् यक्षिणीवृतः।
किन्नरेशः किम्पुरुषनाथः खड्गायुधो वशी॥१०॥
ईशानदक्षपार्श्वस्थो वायुवामसमाश्रयः।
धर्ममार्गैकनिरतो धर्मसम्मुखसंस्थितः॥११॥
नित्येश्वरो धनाध्यक्षो ह्यष्टलक्ष्म्याश्रितालयः।
मनुष्यधर्मा सद्वृत्तः कोशलक्ष्मीसमाश्रितः॥१२॥
धनलक्ष्मीनित्यवासो धान्यलक्ष्मीनिवासभूः।
अश्वलक्ष्मीसदावासो गजलक्ष्मीस्थिरालयः॥१३॥
राज्यलक्ष्मीजन्मगेहो धैर्यलक्ष्मीकृपाश्रयः।
अखण्डैश्वर्यसंयुक्तो नित्यानन्दः सुखाश्रयः॥१४॥
नित्यतृप्तो निधित्राता निराशो निरुपद्रवः।
नित्यकामो निराकाङ्क्षो निरुपाधिकवासभूः॥१५॥
शान्तः सर्वगुणोपेतः सर्वज्ञः सर्वसम्मतः।
शर्वाणीकरुणापात्रः सदानन्दकृपालयः॥१६॥
गन्धर्वकुलसंसेव्यः सौगन्धिकसुमप्रियः।
सुवर्णनगरीवासो निधिपीठसमाश्रयः॥१७॥
महामेरूत्तरस्थायी महर्षिगणसंस्तुतः।
तुष्टः शूर्पणखाज्येष्ठः शिवपूजारतोऽनघः॥१८॥
राजयोगसमायुक्तो राजशेखरपूजकः।
नाम्नामष्टोत्तरशतं कुबेरस्य महात्मनः।
नित्यं पठति यो भक्त्या पुत्रपौत्रसुखी भवेत्॥१९॥
॥इति श्री-कुबेराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥