Shatanama Stotram

कृष्णाष्टोत्तरशतनामस्तोत्रम्

ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य श्रीशेष ऋषिः।
अनुष्टुप्-छन्दः। श्रीकृष्णो देवता।
श्रीकृष्णप्रीत्यर्थे श्री-कृष्णाष्टोत्तरशतनामजपे विनियोगः।

ध्यानम्

शिखिमुकुटविशेषं नीलपद्माङ्गदेशं
विधुमुखकृतकेशं कौस्तुभापीतवेशम्।
मधुररवकलेशं शं भजे भ्रातृशेषं
व्रजजनवनितेशं माधवं राधिकेशम्॥

श्रीशेष उवाच

वसुन्धरे वरारोहे जनानामस्ति मुक्तिदम्।
सर्वमङ्गलमूर्धन्यमणिमाद्यष्टसिद्धिदम्॥
महापातककोटिघ्नं सर्वतीर्थफलप्रदम्।
समस्तजपयज्ञानां फलदं पापनाशनम्॥
शृणु देवि प्रवक्ष्यामि नाम्नामष्टोत्तर शतम्।
सहस्रनाम्नां पुण्यानां त्रिरावृत्या तु यत्फलम्॥
एकावृत्या तु कृष्णस्य नामैकं तत्प्रयच्छति।
तस्मात्पुण्यतरं चैतत्स्तोत्रं पातकनाशनम्॥
नाम्नामष्टोत्तरशतस्याहमेव ऋषिः प्रिये।
छन्दोऽनुष्टुब्देवता तु योगः कृष्णप्रियावहः॥

स्तोत्रम्

श्रीकृष्णः कमलानाथो वासुदेवः सनातनः।
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः॥१॥
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः।
चतुर्भुजात्तचक्रासिगदाशङ्खाम्बुजायुधः॥२॥
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः।
यमुनावेगसंहारी बलभद्रप्रियानुजः॥३॥
पूतनाजीवितहरः शकटासुरभञ्जनः।
नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः॥४॥
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः।
नवनीतनवाहारो मुचुकुन्दप्रसादकः॥५॥
षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः।
शुकवागमृताब्धीन्दुर्गोविन्दो योगिनां पतिः॥६॥
वत्सवाटचरोऽनन्तो धेनुकासुरभञ्जनः।
तृणीकृततृणावर्तो यमलार्जुनभञ्जनः॥७॥
उत्तालतालभेत्ता च तमालश्यामलाकृतिः।
गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः॥८॥
इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः।
वनमाली पीतवासाः पारिजातापहारकः॥९॥
गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः।
अजो निरञ्जनः कामजनकः कञ्जलोचनः॥१०॥
मधुहा मथुरानाथो द्वारकानायको बली।
वृन्दावनान्तसञ्चारी तुलसीदामभूषणः॥११॥
स्यमन्तकमणेर्हर्ता नरनारायणात्मकः।
कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः॥१२॥
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः।
संसारवैरी कंसारिर्मुरारिर्नरकान्तकः॥१३॥
अनादिब्रह्मचारी च कृष्णाव्यसनकर्षकः।
शिशुपालशिरश्छेत्ता दुर्योधनकुलान्तकः॥१४॥
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः।
सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी॥१५॥
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः।
जगद्गुरुर्जगन्नाथो वेणुनादविशारदः॥१६॥
वृषभासुरविध्वंसी बाणासुरकरान्तकः।
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः॥१७॥
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः।
कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः॥१८॥
दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशकः।
नारायणः परब्रह्म पन्नगाशनवाहनः॥१९॥
जलक्रीडासमासक्तगोपीवस्त्रापहारकः।
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः॥२०॥
सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः।
इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम्॥२१॥
कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा।
स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया श्रुतम्॥२२॥
कृष्णप्रेमामृतं नाम परमानन्ददायकम्।
अत्युपद्रवदुःखघ्नं परमायुष्यवर्धनम्॥२३॥
दानं व्रतं तपस्तीर्थं यत्कृतं त्विह जन्मनि।
पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत्॥२४॥
पुत्त्रप्रदमपुत्त्राणामगतीनां गतिप्रदम्।
धनावहं दरिद्राणां जयेच्छूनां जयावहम्॥२५॥
शिशूनां गोकुलानां च पुष्टिदं पुण्यवर्धनम्।
बालरोगग्रहादीनां शमनं शान्तिकारकम्॥२६॥
अन्ते कृष्णस्मरणदं भवतापत्रयापहम्।
असिद्धसाधकं भद्रे जपादिकरमात्मनाम्॥२७॥
कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने।
नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने॥२८॥
इमं मन्त्रं महादेवि जपन्नेव दिवानिशम्।
सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत्॥२९॥
पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान्।
निषेव्यभोगानन्तेऽपि कृष्णसायुज्यमाप्युनात्॥३०॥

॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्घातपादे भार्गवचरिते षट्त्रिंशत्तमोऽध्यायान्तर्गत श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥