Stotra · Gaṇeśa
गणपत्यष्टोत्तरशतनामस्तोत्रम्
Gaṇapatyaṣṭottaraśatanāmastotram
About this stotra
108 names of Gaṇapati, from the Gaṇeśa Purāṇa, in the Anuṣṭubh metre.Script
ध्यानम्
ॐकारसन्निभमिभाननमिन्दुभालं
मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम्।
लम्बोदरं कलचतुर्भुजमादिदेवं
ध्यायेन्महागणपतिं मतिसिद्धिकान्तम्॥
स्तोत्रम्
गणेश्वरो गणक्रीडो महागणपतिस्तथा।
विश्वकर्ता विश्वमुखो दुर्जयो धूर्जयो जयः॥१॥
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः।
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः॥२॥
चित्राङ्गः श्यामदशनो भालचन्द्रश्चतुर्भुजः।
शम्भुतेजा यज्ञकायः सर्वात्मा सामबृंहितः॥३॥
कुलाचलांसो व्योमनाभिः कल्पद्रुमवनालयः।
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः॥४॥
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः।
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः॥५॥
इक्षुचापधरः शूली कान्तिकन्दलिताश्रयः।
अक्षमालाधरो ज्ञानमुद्रावान् विजयावहः॥६॥
कामिनीकामनाकाममालिनीकेलिलालितः।
अमोघसिद्धिराधार आधाराधेयवर्जितः॥७॥
इन्दीवरदलश्याम इन्दुमण्डलनिर्मलः।
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः॥८॥
कमण्डलुधरः कल्पः कपर्दी कटिसूत्रभृत्।
कारुण्यदेहः कपिलो गुह्यागमनिरूपितः॥९॥
गुहाशयो गुहाब्धिस्थो घटकुम्भो घटोदरः।
पूर्णानन्दः परानन्दो धनदो धरणीधरः॥१०॥
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः।
भव्यो भूतालयो भोगदाता चैव महामनाः॥११॥
वरेण्यो वामदेवश्च वन्द्यो वज्रनिवारणः।
विश्वकर्ता विश्वचक्षुर्हवनं हव्यकव्यभुक्॥१२॥
स्वतन्त्रः सत्यसङ्कल्पस्तथा सौभाग्यवर्धनः।
कीर्तिदः शोकहारी च त्रिवर्गफलदायकः॥१३॥
चतुर्बाहुश्चतुर्दन्तश्चतुर्थीतिथिसम्भवः।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्॥१४॥
कामरूपः कामगतिर्द्विरदो द्वीपरक्षकः।
क्षेत्राधिपः क्षमाभर्ता लयस्थो लड्डुकप्रियः॥१५॥
प्रतिवादिमुखस्तम्भो दुष्टचित्तप्रसादनः।
भगवान् भक्तिसुलभो याज्ञिको याजकप्रियः॥१६॥
इत्येवं देवदेवस्य गणराजस्य धीमतः।
शतमष्टोत्तरं नाम्नां सारभूतं प्रकीर्तितम्॥१७॥
सहस्रनाम्नामाकृष्य मया प्रोक्तं मनोहरम्।
ब्राह्मे मुहूर्ते चोत्थाय स्मृत्वा देवं गणेश्वरम्।
पठेत् स्तोत्रमिदं भक्त्या गणराजः प्रसीदति॥१८॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणपत्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥