दुर्गाष्टोत्तरशतनामस्तोत्रम्
न्यासः
अस्य श्रीदुर्गाष्टोत्तरशतनामास्तोत्रमालामन्त्रस्य
महाविष्णुमहेश्वराः ऋषयः। अनुष्टुप् छन्दः।
श्रीदुर्गापरमेश्वरी देवता।
ह्रां बीजम्। ह्रीं शक्तिः। ह्रूं कीलकम्।
सर्वाभीष्टसिद्ध्यर्थे जपहोमार्चने विनियोगः।
स्तोत्रम्
सती साध्वी भवप्रीता भवानी भवमोचनी।
आर्या दुर्गा जया चाऽऽद्या त्रिनेत्रा शूलधारिणी॥१॥
पिनाकधारिणी चित्रा चण्डघण्टा महातपाः।
मनो बुद्धिरहङ्कारा चिद्रूपा च चिदाकृतिः॥२॥
अनन्ता भाविनी भव्या ह्यभव्या च सदागतिः।
शाम्भवी देवमाता च चिन्ता रत्नप्रिया तथा॥३॥
सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी।
अपर्णाऽनेकवर्णा च पाटला पाटलावती॥४॥
पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी।
ईशानी च महाराज्ञी ह्यप्रमेयपराक्रमा॥५॥
रुद्राणी क्रूररूपा च सुन्दरी सुरसुन्दरी।
वनदुर्गा च मातङ्गी मतङ्गमुनिकन्यका॥६॥
ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा।
चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः॥७॥
विमला ज्ञानरूपा च क्रिया नित्या च बुद्धिदा।
बहुला बहुलप्रेमा महिषासुरमर्दिनी॥८॥
मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी।
सर्वशास्त्रमयी चैव सर्वदानवघातिनी॥९॥
अनेकशस्त्रहस्ता च सर्वशस्त्रास्त्रधारिणी।
भद्रकाली सदाकन्या कैशोरी युवतिर्यतिः॥१०॥
प्रौढाऽप्रौढा वृद्धमाता घोररूपा महोदरी।
बलप्रदा घोररूपा महोत्साहा महाबला॥११॥
अग्निज्वाला रौद्रमुखी कालरात्री तपस्विनी।
नारायणी महादेवी विष्णुमाया शिवात्मिका॥१२॥
शिवदूती कराली च ह्यनन्ता परमेश्वरी।
कात्यायनी महाविद्या महामेधास्वरूपिणी॥१३॥
गौरी सरस्वती चैव सावित्री ब्रह्मवादिनी।
सर्वतत्त्वैकनिलया वेदमन्त्रस्वरूपिणी॥१४॥
फलश्रुतिः
इदं स्तोत्रं महादेव्या नाम्नाम् अष्टोत्तरं शतम्।
यः पठेत् प्रयतो नित्यं भक्तिभावेन चेतसा॥१५॥
शत्रुभ्यो न भयं तस्य तस्य शत्रुक्षयं भवेत्।
सर्वदुःखदरिद्राच्च सुसुखं मुच्यते ध्रुवम्॥१६॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।
कन्यार्थी लभते कन्यां कन्या च लभते वरम्॥१७॥
ऋणी ऋणाद् विमुच्येत ह्यपुत्रो लभते सुतम्।
रोगाद् विमुच्यते रोगी सुखमत्यन्तमश्नुते॥१८॥
भूमिलाभो भवेत् तस्य सर्वत्र विजयी भवेत्।
सर्वान् कामानवाप्नोति महादेवीप्रसादतः॥१९॥
कुङ्कुमैर्बिल्वपत्रैश्च सुगन्धै रक्तपुष्पकैः।
रक्तपत्रैर्विशेषेण पूजयन् भद्रमश्नुते॥२०॥
॥इति श्री-दुर्गाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥