शास्तादशकम्
लोकवीरं महापूज्यं सर्वरक्षकरं विभुम्।
पार्वती-हृदयानन्दं शास्तारं प्रणमाम्यहम्॥१॥
विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भोर्प्रियं सुतम्।
क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम्॥२॥
मतमातङ्गगमनं कारुण्यामृतपूरितम्।
सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम्॥३॥
अस्मद्कुलेश्वरं देवम् अस्मच्छत्रुविनाशकम्।
अस्मदिष्टप्रददरं शास्तारं प्रणमाम्यहम्॥४॥
पाण्ड्येशवंशतिलकं केरळे केलिविग्रहम्।
आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम्॥५॥
त्र्यम्बकपुरादीशं गणाधिपसमन्वितम्।
गजारूढमहं वन्दे शास्तारं प्रणमाम्यहम्॥६॥
शिववीर्यसमुद्भूतं श्रीनिवासतनूद्भवं।
शिखिवाहानुजं वन्दे शास्तारं प्रणमाम्यहम्॥७॥
यस्य धन्वन्तरिर्माता पिता देवो महेश्वरः।
तं शास्तारमहं वन्दे महारोगनिवारणम्॥८॥
भूतनाथ सदानन्द सर्वभूतदयापर।
रक्ष रक्ष महाबाहो शास्त्रे तुभ्यं नमो नमः॥९॥
आश्यामकोमलविशालतनुं विचित्रं
वसोऽवसान अरुणोत्फलदामहस्तम्।
उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं
शास्तारमिष्टवरदं शरणं प्रपद्ये॥१०॥
॥इति श्री-शास्तादशकं सम्पूर्णम्॥