हरिहरात्मजाष्टकम्
हरिवरासनं विश्वमोहनं
हरिदधीश्वरम् आराध्यपादुकम्।
अरिविमर्दनं नित्यनर्तनं
हरिहरात्मजं देवमाश्रये॥१॥
चरणकीर्तनं भक्तमानसं
भरणलोलुपं नर्तनालसम्।
अरुणभासुरं भूतनायकं
हरिहरात्मजं देवमाश्रये॥२॥
प्रणयसत्यकं प्राणनायकं
प्रणतकल्पकं सुप्रभञ्चितम्।
प्रणवमन्दिरं कीर्तनप्रियं
हरिहरात्मजं देवमाश्रये॥३॥
तुरगवाहनं सुन्दराननं
वरगदायुधं वेदवर्णितम्।
गुरुकृपाकरं कीर्तनप्रियं
हरिहरात्मजं देवमाश्रये॥४॥
त्रिभुवनार्चितं देवतात्मकं
त्रिनयनप्रभुं दिव्यदेशिकम्।
त्रिदशपूजितं चिन्तितप्रदं
हरिहरात्मजं देवमाश्रये॥५॥
भवभयापहं भावुकावकं
भुवनमोहनं भूतिभूषणम्।
धवलवाहनं दिव्यवारणं
हरिहरात्मजं देवमाश्रये॥६॥
कलमृदुस्मितं सुन्दराननं
कलभकोमलं गात्रमोहनम्।
कलभकेसरीं वाजिवाहनं
हरिहरात्मजं देवमाश्रये॥७॥
श्रितजनप्रियं चिन्तितप्रदं
श्रुतिविभूषणं साधुजीवनम्।
श्रुतिमनोहरं गीतलालसं
हरिहरात्मजं देवमाश्रये॥८॥
॥इति श्री-हरिहरात्मजाष्टकं सम्पूर्णम्॥