स्तोत्रसंहिताStotraSamhita
Stotra · Devī

दुर्गास्तोत्रम् (युधिष्ठिरकृतम्)

Durgāstotram Yudhiṣṭhirakṛtam

About this stotra

From the Mahābhārata, Virāṭa Parva (Pāṇḍava-praveśa Parva, Adhyāya 8). The Pāṇḍavas’ twelve years in the forest are over, and the thirteenth, to be lived unrecognised, is about to begin. As they set out for Virāṭa’s city, Yudhiṣṭhira prays in his mind to Durgā, Queen of the three worlds.

He hails Her as the One born of Yaśodā in Nanda’s house, dear to Nārāyaṇa. Kaṃsa dashed Her against a rock, and She rose into the sky. She is the Sister of Vāsudeva, bearing sword and shield, dark like Kṛṣṇa, with a face like Saṅkarṣaṇa’s. She has dwelt forever on the Vindhya, slayer of Mahiṣa: because You carry people across difficulty (durga), You are called Durgā. Those lost in forests, sinking in the ocean or held by robbers have Her as their refuge. Fallen from his kingdom, the king takes refuge in Her: “Be my refuge, O Durgā, kind to Your devotees.”

The Devī appears before him. She promises victory in battle, the kingdom won back with his brothers, and health and joy. The Kauravas and the people of the city will not recognise the Pāṇḍavas while they live in Virāṭa’s city. Whoever remembers Her as he did, in exile, in battle, in forest, sea or mountain, will find nothing out of reach, and whoever hears or reads this hymn with devotion will see all their work succeed. Then, having placed the Pāṇḍavas under Her protection, She vanishes.

वैशम्पायन उवाच

विराटनगरं रम्यं गच्छमानो युधिष्ठिरः।
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम्॥१॥
यशोदागर्भसम्भूतां नारायणवरप्रियाम्।
नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीम्॥२॥
कंसविद्रावणकरीमसुराणां क्षयङ्करीम्।
शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम्॥३॥
वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम्।
दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम्॥४॥
भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम्।
तान् वै तारयसे पापात् पङ्के गामिव दुर्बलाम्॥५॥
स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसम्भवैः।
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः॥६॥
नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि।
बालार्कसदृशाकारे पूर्णचन्द्रनिभानने॥७॥
चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे।
मयूरपिच्छवलये केयूराङ्गदधारिणि॥८॥
भासि देवि यथा पद्मा नारायणपरिग्रहः।
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि॥९॥
कृष्णच्छविसमा कृष्णा सङ्कर्षणसमानना।
बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ॥१०॥
पात्री च पङ्कजी घण्टी स्त्री विशुद्धा च या भुवि।
पाशं धनुर्महाचक्रं विविधान्यायुधानि च॥११॥
कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता।
चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे॥१२॥
मुकुटेन विचित्रेण केशबन्धेन शोभिना।
भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता॥१३॥
विभ्राजसे चाबद्धेन भोगेनेवेह मन्दरः।
ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे॥१४॥
कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया।
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च॥१५॥
त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि।
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव॥१६॥
जया त्वं विजया चैव सङ्ग्रामे च जयप्रदा।
ममापि विजयं देहि वरदा त्वं च साम्प्रतम्॥१७॥
विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम्।
कालि कालि महाकालि शीधुमांसपशुप्रिये॥१८॥
कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी।
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः॥१९॥
प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि।
न तेषां दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा॥२०॥
दुर्गात् तारयसे दुर्गे तत् त्वं दुर्गा स्मृता जनैः।
कान्तारेष्ववसन्नानां मग्नानां च महार्णवे।
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम्॥२१॥
जलप्रतरणे चैव कान्तारेष्वटवीषु च।
ये स्मरन्ति महादेवि न च सीदन्ति ते नराः॥२२॥
त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या सन्ततिर्मतिः।
सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया॥२३॥
नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम्।
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि॥२४॥
सोऽहं राज्यात् परिभ्रष्टः शरणं त्वां प्रपन्नवान्।
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि॥२५॥
त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः।
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले॥२६॥
एवं स्तुता हि सा देवी दर्शयामास पाण्डवम्।
उपगम्य तु राजानमिदं वचनमब्रवीत्॥२७॥

देव्युवाच

शृणु राजन् महाबाहो मदीयं वचनं प्रभो।
भविष्यत्यचिरादेव सङ्ग्रामे विजयस्तव॥२८॥
मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम्।
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः॥२९॥
भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम्।
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति॥३०॥
ये च सङ्कीर्तयिष्यन्ति लोके विगतकल्मषाः।
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम्॥३१॥
प्रवासे नगरे वाऽपि सङ्ग्रामे शत्रुसङ्कटे।
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ॥३२॥
ये स्मरिष्यन्ति मां राजन् यथाऽहं भवता स्मृता।
न तेषां दुर्लभं किञ्चिदस्मिन् लोके भविष्यति॥३३॥
इदं स्तोत्रवरं भक्त्या शृणुयाद् वा पठेत वा।
तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः॥३४॥
मत्प्रसादाच्च वः सर्वान् विराटनगरे स्थितान्।
न प्रज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः॥३५॥
इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम्।
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत॥३६॥

॥इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि अष्टमोऽध्यायः॥