Stotra · Devī
मूकसारः
Mūkasāraḥ
About this stotra
The Mūkasāra, “the essence of Mūka”, is a garland of verses from the Mūka Pañcaśatī, the five hundred verses on Kāmākṣī of Kāñcī by the poet Mūka. The selection was made by the Paramācārya of Kāñcī, Śrī Candraśekharendra Sarasvatī, and a few more popular verses are added here (shown in brackets: Āryā Śataka 1 and 100, and Stuti Śataka 6).
Its forty verses are ordered by the five śatakas they come from, and each verse is marked with its śataka and number:
- Āryā Śataka (8 verses), in the short āryā metre: Her form as Compassion itself, playing in Kāñcī’s Kāma-pīṭha, and the closing jaya jaya jagadamba śive.
- Pādāravinda Śataka (8): Her lotus feet, a boat on the ocean of saṃsāra and the giver of fame, wealth and poetry.
- Stuti Śataka (10): praise of the Devī and of Kāñcī.
- Kaṭākṣa Śataka (8): the grace of Her sidelong glance.
- Mandasmita Śataka (6): Her gentle smile. The last verse joins the five themes: one who meditates on the āryā, beholds Her feet, begins Her praise and receives Her glance rises on the waves of Her smile to the mansion of liberation.
Script
१-आर्याशतके
[कारण-पर-चिद्रूपा काञ्चीपुर-सीम्नि कामपीठगता।
काचन विहरति करुणा काश्मीर-स्तबक-कोमलाङ्गलता]॥१॥१-१
कुण्डलि कुमारि कुटिले चण्डि चराचर-सवित्रि चामुण्डे।
गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि॥२॥१-४६
अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः।
अनहन्ता त्वमहन्ता भ्रमयसि कामाक्षि शाश्वती विश्वम्॥३॥१-४७
काम-परिपन्थि-कामिनि कामेश्वरि काम-पीठ-मध्य-गते।
काम-दुघा भव कमले काम-कले कामकोटि कामाक्षि॥४॥१-४८
लीये पुर-हर-जाये माये तव तरुण-पल्लव-च्छाये।
चरणे चन्द्रा-भरणे काञ्ची-शरणे नतार्ति-संहरणे॥५॥१-७२
स्मर-मथन-वरण-लोला मन्मथ-हेला-विलास-मणि-शाला।
कनक-रुचि-चौर्य-शीला त्वमम्ब बाला कराब्ज-धृत-माला॥६॥१-७३
अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहन्ते।
चिन्तितसन्तानवतां सन्ततमपि तन्तनीषि महिमानम्॥७॥१-९८
[जय जय जगदम्ब शिवे
जय जय कामाक्षि जय जयाद्रिसुते।
जय जय महेशदयिते
जय जय चिद्गगनकौमुदीधारे]॥८॥१-१००
२-पादारविन्दशतके
जपालक्ष्मीशोणो जनितपरमज्ञाननलिनी-
विकासव्यासङ्गो विफलितजगज्जाड्यगरिमा।
मनःपूर्वाद्रिं मे तिलकयतु कामाक्षि तरसा
तमस्काण्डद्रोही तव चरणपाथोजरमणः॥९॥२-१७
गिरां दूरौ चोरौ जडिमतिमिराणां कृतजगत्
परित्राणौ शोणौ मुनिहृदयलीलैकनिपुणौ।
नखैः स्मेरौ सारौ निगमवचसां खण्डितभव-
ग्रहोन्मादौ पादौ तव जननि कामाक्षि कलये॥१०॥२-४४
भवाम्भोधौ नौकां जडिमविपिने पावकशिखाम्
अमर्त्येन्द्रादीनामधिमुकुटमुत्तंसकलिकाम्।
जगत्तापे ज्योत्स्नामकृतकवचःपञ्जरपुटे
शुकस्त्रीं कामाक्ष्या मनसि कलये पादयुगलीम्॥११॥२-४९
कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणौ
विपन्नानां श्रीमन्नलिनमसृणौ शोणकिरणौ।
मुनीन्द्राणामन्तःकरणशरणौ मन्दसरणौ
मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ॥१२॥२-७३
परस्मात् सर्वस्मादपि च परयोर्मुक्तिकरयोः
नखश्रीभिर्ज्योत्स्नाकलिततुलयोस्ताम्रतलयोः।
निलीये कामाक्ष्या निगमनुतयोर्नाकिनतयोः
निरस्तप्रोन्मीलन्नलिनमदयोरेव पदयोः॥१३॥२-७४
रणन्मञ्जीराभ्यां ललितगमनाभ्यां सुकृतिनां
मनोवास्तव्याभ्यां मथिततिमिराभ्यां नखरुचा।
निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततं
नमस्ते पादाभ्यां नलिनमृदुलाभ्यां गिरिसुते॥१४॥२-९६
यशः सूते मातर्मधुरकवितां पक्ष्मलयते
श्रियं दत्ते चित्ते कमपि परिपाकं प्रथयते।
सतां पाशग्रन्थिं शिथिलयति किं किं न कुरुते
प्रपन्ने कामाक्ष्याः प्रणतिपरिपाटी चरणयोः॥१५॥२-९९
मनीषां माहेन्द्रीं ककुभमिव ते कामपि दशां
प्रधत्ते कामाक्ष्याश्चरणतरुणादित्यकिरणः।
यदीये सम्पर्के धृतरसमरन्दा कवयतां
परीपाकं धत्ते परिमलवती सूक्तिनलिनी॥१६॥२-१००
३-स्तुतिशतके
[श्यामा काचन चन्द्रिका त्रिभुवने पुण्यात्मनामानने
सीमाशून्यकवित्ववर्षजननी या काऽपि कादम्बिनी।
मारारातिमनोविमोहनविधौ काचित् तमःकन्दली
कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम्]॥१७॥३-६
राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता
मूकानामपि कुर्वती सुरधुनीनीकाशवाग्वैभवम्।
श्रीकाञ्चीनगरीविहाररसिका शोकापहन्त्री सताम्
एका पुण्यपरम्परा पशुपतेराकारिणी राजते॥१८॥३-११
जाता शीतल-शैलतः सुकृतिनां दृश्या परं देहिनां
लोकानां क्षण-मात्र-संस्मरणतः सन्ताप-विच्छेदिनी।
आश्चर्यं बहु खेलनं वितनुते नैश्चल्य-माबिभ्रती
कम्पायास्तट-सीम्नि काऽपि तटिनी कारुण्य-पाथोमयी॥१९॥३-१२
वरीवर्तु स्थेमा त्वयि मम गिरां देवि मनसो
नरीनर्तु प्रौढा वदनकमले वाक्यलहरी।
चरीचर्तु प्रज्ञाजननि जडिमानः परजने
सरीसर्तु स्वैरं जननि मयि कामाक्षि करुणा॥२०॥३-४८
परा विद्या हृद्याश्रितमदनविद्या मरकत-
प्रभानीला लीलापरवशितशूलायुधमनाः।
तमःपूरं दूरं चरणनतपौरन्दरपुरी-
मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे॥२१॥३-५६
यस्या वाटी हृदयकमलं कौसुमी योगभाजां
यस्याः पीठी सततशिशिरा शीकरैर्माकरन्दैः।
यस्याः पेटी श्रुतिपरिचलन्मौलिरत्नस्य काञ्ची
सा मे सोमाभरणमहिषी साधयेत्काङ्क्षितानि॥२२॥३-७७
परामृतझरीप्लुता जयति नित्यमन्तश्चरी
भुवामपि बहिश्चरी परमसंविदेकात्मिका।
महद्भिरपरोक्षिता सततमेव काञ्चीपुरे
ममान्वहमहम्मतिर्मनसि भातु माहेश्वरी॥२३॥३-९०
चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीं
गुणत्रयमयीं जगत्त्रयमयीं त्रिधामामयीम्।
परापरमयीं सदा दशदिशां निशाहर्मयीं
परां सततसन्मयीं मनसि चिन्मयीं शीलये॥२४॥३-९७
भुवनजननि भूषाभूतचन्द्रे नमस्ते
कलुषशमनि कम्पातीरगेहे नमस्ते।
निखिलनिगमवेद्ये नित्यरूपे नमस्ते
परशिवमयि पाशच्छेदहस्ते नमस्ते॥२५॥३-९९
समरविजयकोटी साधकानन्दधाटी
मृदुगुणपरिपेटी मुख्यकादम्बवाटी।
मुनिनुतपरिपाटी मोहिताजाण्डकोटी
परमशिववधूटी पातु मां कामकोटी॥२६॥३-१०१
४-कटाक्षशतके
मातर्जयन्ति ममता-ग्रह-मोक्षणानि
माहेन्द्र-नील-रुचि-शिक्षण-दक्षिणानि।
कामाक्षि कल्पित-जगत्त्रय-रक्षणानि
त्वद्वीक्षणानि वरदान-विचक्षणानि॥२७॥४-२
नीलोऽपि रागमधिकं जनयन् पुरारेः
लोलोऽपि भक्तिमधिकां दृढयन्नराणाम्।
वक्रोऽपि देवि नमतां समतां वितन्वन्
कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः॥२८॥४-१६
अत्यन्त-शीतलमतन्द्रयतु क्षणार्धम्
अस्तोक-विभ्रममनङ्गविलासकन्दम्।
अल्प-स्मितादृतमपारकृपाप्रवाहम्
अक्षि-प्ररोहमचिरान्मयि कामकोटि॥२९॥४-२४
मातः क्षणं स्नपय मां तव वीक्षितेन
मन्दाक्षितेन सुजनैरपरोक्षितेन।
कामाक्षि कर्म-तिमिरोत्कर-भास्करेण
श्रेयस्करेण मधुप-द्युति-तस्करेण॥३०॥४-४५
कैवल्यदाय करुणारसकिङ्कराय
कामाक्षि कन्दलितविभ्रमशङ्कराय।
आलोकनाय तव भक्तशिवङ्कराय
मातर्नमोऽस्तु परतन्त्रितशङ्कराय॥३१॥४-४७
संसारघर्मपरितापजुषां नराणां
कामाक्षि शीतलतराणि तवेक्षितानि।
चन्द्रातपन्ति घनचन्दनकर्दमन्ति
मुक्तागुणन्ति हिमवारिनिषेचनन्ति॥३२॥४-७७
बाणेन पुष्पधनुषः परिकल्प्यमान-
त्राणेन भक्तमनसां करुणाकरेण।
कोणेन कोमलदृशस्तव कामकोटि
शोणेन शोषय शिवे मम शोकसिन्धुम्॥३३॥४-९४
अज्ञातभक्तिरसमप्रसरद्विवेकम्
अत्यन्तगर्वमनधीतसमस्तशास्त्रम्।
अप्राप्तसत्यमसमीपगतं च मुक्तेः
कामाक्षि मामवतु ते करुणाकटाक्षः॥३४॥४-१००
५-मन्दस्मितशतके
कर्पूरैरमृतैर्जगज्जननि ते कामाक्षि चन्द्रातपैः
मुक्ताहारगुणैर्मृणालवलयैर्मुग्धस्मितश्रीरियम्।
श्रीकाञ्चीपुरनायिके समतया संस्तूयते सज्जनैः
तत्तादृङ्मम तापशान्तिविधये किं देवि मन्दायते॥३५॥५-२४
चेतः शीतलयन्तु नः पशुपतेरानन्दजीवातवो
नम्राणां नयनाध्वसीमसु शरच्चन्द्रातपोपक्रमाः।
संसाराख्यसरोरुहाकरखलीकारे तुषारोत्कराः
कामाक्षि स्मरकीर्तिबीजनिकरास्त्वन्मन्दहासाङ्कुराः॥३६॥५-३१
सूतिः श्वेतिमकन्दलस्य वसतिः शृङ्गारसारश्रियः
पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपाथोनिधेः।
वाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव
श्रीकामाक्षि ममास्तु मङ्गलकरी हासप्रभाचातुरी॥३७॥५-८५
इन्धाने भववीतिहोत्रनिवहे कर्मौघचण्डानिल-
प्रौढिम्ना बहुलीकृते निपतितं सन्तापचिन्ताकुलम्।
मातर्मां परिषिञ्च किञ्चिदमलैः पीयूषवर्षैरिव
श्रीकामाक्षि तव स्मितद्युतिकणैः शैशिर्यलीलाकरैः॥३८॥५-९४
क्रीडालोलकृपासरोरुहमुखीसौधाङ्गणेभ्यः कवि-
श्रेणीवाक्परिपाटिकामृतझरीसूतीगृहेभ्यः शिवे।
निर्वाणाङ्कुरसार्वभौमपदवीसिंहासनेभ्यस्तव
श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्कणेभ्यो नमः॥३९॥५-१००
आर्यामेव विभावयन् मनसि यः पादारविन्दं पुरः
पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्ष-च्छविम्।
कामाक्ष्या मृदुल-स्मितांशु-लहरी-ज्योत्स्ना-वयस्यान्विताम्
आरोहत्यपवर्ग-सौध-वलभीमानन्द-वीची-मयीम्॥४०॥५-१०१
॥इति श्री-काञ्चीजगद्गुरु-श्री-चन्द्रशेखरेन्द्रसरस्वती-श्रीचरणैः श्री-मूकमहाकविप्रणीतायाः मूकपञ्चशत्याः सङ्ग्रहीतः मूकसारः सम्पूर्णः॥
❀