मूकसारः

१-आर्याशतके

[कारण-पर-चिद्रूपा काञ्चीपुर-सीम्नि कामपीठगता।
काचन विहरति करुणा काश्मीर-स्तबक-कोमलाङ्गलता]॥१॥१-१
कुण्डलि कुमारि कुटिले चण्डि चराचर-सवित्रि चामुण्डे।
गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि॥२॥१-४६
अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः।
अनहन्ता त्वमहन्ता भ्रमयसि कामाक्षि शाश्वती विश्वम्॥३॥१-४७
काम-परिपन्थि-कामिनि कामेश्वरि काम-पीठ-मध्य-गते।
काम-दुघा भव कमले काम-कले कामकोटि कामाक्षि॥४॥१-४८
लीये पुर-हर-जाये माये तव तरुण-पल्लव-च्छाये।
चरणे चन्द्रा-भरणे काञ्ची-शरणे नतार्ति-संहरणे॥५॥१-७२
स्मर-मथन-वरण-लोला मन्मथ-हेला-विलास-मणि-शाला।
कनक-रुचि-चौर्य-शीला त्वमम्ब बाला कराब्ज-धृत-माला॥६॥१-७३
अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहन्ते।
चिन्तितसन्तानवतां सन्ततमपि तन्तनीषि महिमानम्॥७॥१-९८
[जय जय जगदम्ब शिवे
जय जय कामाक्षि जय जयाद्रिसुते।
जय जय महेशदयिते
जय जय चिद्गगनकौमुदीधारे]॥८॥१-१००

२-पादारविन्दशतके

जपालक्ष्मीशोणो जनितपरमज्ञाननलिनी-
विकासव्यासङ्गो विफलितजगज्जाड्यगरिमा।
मनःपूर्वाद्रिं मे तिलकयतु कामाक्षि तरसा
तमस्काण्डद्रोही तव चरणपाथोजरमणः॥९॥२-१७
गिरां दूरौ चोरौ जडिमतिमिराणां कृतजगत्
परित्राणौ शोणौ मुनिहृदयलीलैकनिपुणौ।
नखैः स्मेरौ सारौ निगमवचसां खण्डितभव-
ग्रहोन्मादौ पादौ तव जननि कामाक्षि कलये॥१०॥२-४४
भवाम्भोधौ नौकां जडिमविपिने पावकशिखाम्
अमर्त्येन्द्रादीनामधिमुकुटमुत्तंसकलिकाम्।
जगत्तापे ज्योत्स्नामकृतकवचःपञ्जरपुटे
शुकस्त्रीं कामाक्ष्या मनसि कलये पादयुगलीम्॥११॥२-४९
कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणौ
विपन्नानां श्रीमन्नलिनमसृणौ शोणकिरणौ।
मुनीन्द्राणामन्तःकरणशरणौ मन्दसरणौ
मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ॥१२॥२-७३
परस्मात्सर्वस्मादपि च परयोर्मुक्तिकरयोः
नखश्रीभिर्ज्योत्स्नाकलिततुलयोस्ताम्रतलयोः।
निलीये कामाक्ष्या निगमनुतयोर्नाकिनतयोः
निरस्तप्रोन्मीलन्नलिनमदयोरेव पदयोः॥१३॥२-७४
रणन्मञ्जीराभ्यां ललितगमनाभ्यां सुकृतिनाम्
मनोवास्तव्याभ्यां मथिततिमिराभ्यां नखरुचा।
निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततम्
नमस्ते पादाभ्यां नलिनमृदुलाभ्यां गिरिसुते॥१४॥२-९६
यशः सूते मातर्मधुरकवितां पक्ष्मलयते
श्रियं दत्ते चित्ते कमपि परिपाकं प्रथयते।
सतां पाशग्रन्थिं शिथिलयति किं किं न कुरुते
प्रपन्ने कामाक्ष्याः प्रणतिपरिपाटी चरणयोः॥१५॥२-९९
मनीषां माहेन्द्रीं ककुभमिव ते कामपि दशाम्
प्रधत्ते कामाक्ष्याश्चरणतरुणादित्यकिरणः।
यदीये सम्पर्के धृतरसमरन्दा कवयताम्
परीपाकं धत्ते परिमलवती सूक्तिनलिनी॥१६॥२-१००

३-स्तुतिशतके

[श्यामा काचन चन्द्रिका त्रिभुवने पुण्यात्मनामानने
सीमाशून्यकवित्ववर्षजननी या काऽपि कादम्बिनी।
मारारातिमनोविमोहनविधौ काचित्तमःकन्दली
कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम्]॥१७॥३-६
राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता
मूकानामपि कुर्वती सुरधुनीनीकाशवाग्वैभवम्।
श्रीकाञ्चीनगरीविहाररसिका शोकापहन्त्री सताम्
एका पुण्यपरम्परा पशुपतेराकारिणी राजते॥१८॥३-११
जाता शीतल-शैलतः सुकृतिनां दृश्या परं देहिनां
लोकानां क्षण-मात्र-संस्मरणतः सन्ताप-विच्छेदिनी।
आश्चर्यं बहु खेलनं वितनुते नैश्चल्य-माबिभ्रती
कम्पायास्तट-सीम्नि काऽपि तटिनी कारुण्य-पाथोमयी॥१९॥३-१२
वरीवर्तु स्थेमा त्वयि मम गिरां देवि मनसो
नरीनर्तु प्रौढा वदनकमले वाक्यलहरी।
चरीचर्तु प्रज्ञाजननि जडिमानः परजने
सरीसर्तु स्वैरं जननि मयि कामाक्षि करुणा॥२०॥३-४८
परा विद्या हृद्याश्रितमदनविद्या मरकत-
प्रभानीला लीलापरवशितशूलायुधमनाः।
तमःपूरं दूरं चरणनतपौरन्दरपुरी-
मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे॥२१॥३-५६
यस्या वाटी हृदयकमलं कौसुमी योगभाजाम्
यस्याः पीठी सततशिशिरा शीकरैर्माकरन्दैः।
यस्याः पेटी श्रुतिपरिचलन्मौलिरत्नस्य काञ्ची
सा मे सोमाभरणमहिषी साधयेत्काङ्क्षितानि॥२२॥३-७७
परामृतझरीप्लुता जयति नित्यमन्तश्चरी
भुवामपि बहिश्चरी परमसंविदेकात्मिका।
महद्भिरपरोक्षिता सततमेव काञ्चीपुरे
ममान्वहमहम्मतिर्मनसि भातु माहेश्वरी॥२३॥३-९०
चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीम्
गुणत्रयमयीं जगत्त्रयमयीं त्रिधामामयीम्।
परापरमयीं सदा दशदिशां निशाहर्मयीम्
परां सततसन्मयीं मनसि चिन्मयीं शीलये॥२४॥३-९७
भुवनजननि भूषाभूतचन्द्रे नमस्ते
कलुषशमनि कम्पातीरगेहे नमस्ते।
निखिलनिगमवेद्ये नित्यरूपे नमस्ते
परशिवमयि पाशच्छेदहस्ते नमस्ते॥२५॥३-९९
समरविजयकोटी साधकानन्दधाटी
मृदुगुणपरिपेटी मुख्यकादम्बवाटी।
मुनिनुतपरिपाटी मोहिताजाण्डकोटी
परमशिववधूटी पातु मां कामकोटी॥२६॥३-१०१

४-कटाक्षशतके

मातर्जयन्ति ममता-ग्रह-मोक्षणानि
माहेन्द्र-नील-रुचि-शिक्षण-दक्षिणानि।
कामाक्षि कल्पित-जगत्त्रय-रक्षणानि
त्वद्वीक्षणानि वरदान-विचक्षणानि॥२७॥४-२
नीलोऽपि रागमधिकं जनयन् पुरारेः
लोलोऽपि भक्तिमधिकां दृढयन्नराणाम्।
वक्रोऽपि देवि नमतां समतां वितन्वन्
कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः॥२८॥४-१६
अत्यन्त-शीतलमतन्द्रयतु क्षणार्धम्
अस्तोक-विभ्रममनङ्गविलासकन्दम्।
अल्प-स्मितादृतमपारकृपाप्रवाहम्
अक्षि-प्ररोहमचिरान्मयि कामकोटि॥२९॥४-२४
मातः क्षणं स्नपय मां तव वीक्षितेन
मन्दाक्षितेन सुजनैरपरोक्षितेन।
कामाक्षि कर्म-तिमिरोत्कर-भास्करेण
श्रेयस्करेण मधुप-द्युति-तस्करेण॥३०॥४-४५
कैवल्यदाय करुणारसकिङ्कराय
कामाक्षि कन्दलितविभ्रमशङ्कराय।
आलोकनाय तव भक्तशिवङ्कराय
मातर्नमोऽस्तु परतन्त्रितशङ्कराय॥३१॥४-४७
संसारघर्मपरितापजुषां नराणाम्
कामाक्षि शीतलतराणि तवेक्षितानि।
चन्द्रातपन्ति घनचन्दनकर्दमन्ति
मुक्तागुणन्ति हिमवारिनिषेचनन्ति॥३२॥४-७७
बाणेन पुष्पधनुषः परिकल्प्यमान-
त्राणेन भक्तमनसां करुणाकरेण।
कोणेन कोमलदृशस्तव कामकोटि
शोणेन शोषय शिवे मम शोकसिन्धुम्॥३३॥४-९४
अज्ञातभक्तिरसमप्रसरद्विवेकम्
अत्यन्तगर्वमनधीतसमस्तशास्त्रम्।
अप्राप्तसत्यमसमीपगतं च मुक्तेः
कामाक्षि मामवतु ते करुणाकटाक्षः॥३४॥४-१००

५-मन्दस्मितशतके

कर्पूरैरमृतैर्जगज्जननि ते कामाक्षि चन्द्रातपैः
मुक्ताहारगुणैर्मृणालवलयैर्मुग्धस्मितश्रीरियम्।
श्रीकाञ्चीपुरनायिके समतया संस्तूयते सज्जनैः
तत्तादृङ्मम तापशान्तिविधये किं देवि मन्दायते॥३५॥५-२४
चेतः शीतलयन्तु नः पशुपतेरानन्दजीवातवो
नम्राणां नयनाध्वसीमसु शरच्चन्द्रातपोपक्रमाः।
संसाराख्यसरोरुहाकरखलीकारे तुषारोत्कराः
कामाक्षि स्मरकीर्तिबीजनिकरास्त्वन्मन्दहासाङ्कुराः॥३६॥५-३१
सूतिः श्वेतिमकन्दलस्य वसतिः शृङ्गारसारश्रियः
पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपाथोनिधेः।
वाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव
श्रीकामाक्षि ममास्तु मङ्गलकरी हासप्रभाचातुरी॥३७॥५-८५
इन्धाने भववीतिहोत्रनिवहे कर्मौघचण्डानिल-
प्रौढिम्ना बहुलीकृते निपतितं सन्तापचिन्ताकुलम्।
मातर्मां परिषिञ्च किञ्चिदमलैः पीयूषवर्षैरिव
श्रीकामाक्षि तव स्मितद्युतिकणैः शैशिर्यलीलाकरैः॥३८॥५-९४
क्रीडालोलकृपासरोरुहमुखीसौधाङ्गणेभ्यः कवि-
श्रेणीवाक्परिपाटिकामृतझरीसूतीगृहेभ्यः शिवे।
निर्वाणाङ्कुरसार्वभौमपदवीसिंहासनेभ्यस्तव
श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्कणेभ्यो नमः॥३९॥५-१००
आर्यामेव विभावयन् मनसि यः पादारविन्दं पुरः
पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्ष-च्छविम्।
कामाक्ष्या मृदुल-स्मितांशु-लहरी-ज्योत्स्ना-वयस्यान्विताम्
आरोहत्यपवर्ग-सौध-वलभीमानन्द-वीची-मयीम्॥४०॥५-१०१

॥इति श्री-काञ्चीजगद्गुरु-श्री-चन्द्रशेखरेन्द्रसरस्वती-श्रीचरणैः श्री-मूकमहाकविप्रणीतायाः मूकपञ्चशत्याः सङ्ग्रहीतः मूकसारः सम्पूर्णः॥