कामाक्षी सुप्रभातम्
जगदवन विधौ त्वं जागरूका भवानि
तव तु जननि निद्रामात्मवत्कल्पयित्वा।
प्रतिदिवसमहं त्वां बोधयामि प्रभाते
त्वयि कृतमपराधं सर्वमेतं क्षमस्व॥
यदि प्रभातं तव सुप्रभातं
तदा प्रभातं मम सुप्रभातम्।
तस्मात् प्रभाते तव सुप्रभातं
वक्ष्यामि मातः कुरु सुप्रभातम्॥
गुरु-ध्यानम्
यस्याङ्घ्रिपद्म-मकरन्दनिषेवणात् त्वं
जिह्वां गताऽसि वरदे मम मन्दबद्धः।
यस्याम्ब नित्यमनघे हृदये विभासि
तं चन्द्रशेखरगुरुं प्रणमामि नित्यम्॥
जये जयेन्द्रो गुरुणा ग्रहीतो
मठाधिपत्ये शशिशेखरेण।
यथा गुरुः सर्वगुणोपपन्नो
जयत्यसौ मङ्गलमातनोतु॥
शुभं दिशतु नो देवी कामाक्षी सर्वमङ्गला
शुभं दिशतु नो देवी कामकोटी-मठेशः।
शुभं दिशतु तच्छिष्य-सद्गुरुर्नो जयेन्द्रो
सर्वं मङ्गलमेवास्तु मङ्गलानि भवन्तु नः॥
सुप्रभातम्
कामाक्षि देव्यम्ब तवाऽऽर्द्रदृष्ट्या
मूकः स्वयं मूककविर्यथाऽसीत्।
तथा कुरु त्वं परमेशजाये
त्वत्पादमूले प्रणतं दयार्द्रे॥१॥
उत्तिष्ठोत्तिष्ठ वरदे उत्तिष्ठ जगदीश्वरि।
उत्तिष्ठ जगदाधारे त्रैलोक्यं मङ्गलं कुरु॥२॥
शृणोषि कच्चिद् ध्वनिरुत्थितोऽयं
मृदङ्गभेरीपटहानकानाम्।
वेदध्वनिं शिक्षितभूसुराणां
शृणोषि भद्रे कुरु सुप्रभातम्॥३॥
शृणोषि भद्रे ननु शङ्खघोषं
वैतालिकानां मधुरं च गानम्।
शृणोषि मातः पिककुक्कुटानां
ध्वनिं प्रभाते कुरु सुप्रभातम्॥४॥
मातर्निरीक्ष्य वदनं भगवान् शशाङ्को
लज्जान्वितः स्वयमहो निलयं प्रविष्टः।
द्रष्टुं त्वदीय वदनं भगवान् दिनेशो
ह्यायाति देवि सदनं कुरु सुप्रभातम्॥५॥
पश्याम्ब केचिद् धृतपूर्णकुम्भाः
केचिद् दयार्द्रे धृतपुष्पमालाः।
काचित् शुभाङ्ग्यो ननुवाद्यहस्ताः
तिष्ठन्ति तेषां कुरु सुप्रभातम्॥६॥
भेरीमृदङ्गपणवानकवाद्यहस्ताः
स्तोतुं महेशदयिते स्तुतिपाठकास्त्वाम्।
तिष्ठन्ति देवि समयं तव काङ्क्षमाणाः
ह्युत्तिष्ठ दिव्यशयनात् कुरु सुप्रभातम्॥७॥
मातर्निरीक्ष्य वदनं भगवान् त्वदीयं
नैवोत्थितः शशिधिया शयितस्तवाङ्के।
सम्बोधयाऽऽशु गिरिजे विमलं प्रभातं
जातं महेशदयिते कुरु सुप्रभातम्॥८॥
अन्तश्चरन्त्यास्तव भूषणानां
झल्झल्ध्वनिं नूपुरकङ्कणानाम्।
श्रुत्वा प्रभाते तव दर्शनार्थी
द्वारि स्थितोऽहं कुरु सुप्रभातम्॥९॥
वाणी पुस्तकमम्बिके गिरिसुते पद्मानि पद्मासना
रम्भा त्वम्बरडम्बरं गिरिसुता गङ्गा च गङ्गाजलम्।
काली तालयुगं मृदङ्गयुगलं बृन्दा च नन्दा तथा
नीला निर्मलदर्पण-धृतवती तासां प्रभातं शुभम्॥१०॥
उत्थाय देवि शयनाद्भगवान् पुरारिः
स्नातुं प्रयाति गिरिजे सुरलोकनद्याम्।
नैको हि गन्तुमनघे रमते दयार्द्रे
ह्युत्तिष्ठ देवि शयनात् कुरु सुप्रभातम्॥११॥
पश्याम्ब केचित्फलपुष्पहस्ताः
केचित् पुराणानि पठन्ति मातः।
पठन्ति वेदान् बहवस्तवाऽऽरे
तेषां जनानां कुरु सुप्रभातम्॥१२॥
लावण्यशेवधिमवेक्ष्य चिरं त्वदीयं
कन्दर्पदर्पदलनोऽपि वशं गतस्ते।
कामारि-चुम्बित-कपोलयुगं त्वदीयं
द्रष्टुं स्थिता वयमये कुरु सुप्रभातम्॥१३॥
गाङ्गेयतोयममवाह्य मुनीश्वरास्त्वां
गङ्गाजलैः स्नपयितुं बहवो घटांश्च।
धृत्वा शिरःसु भवतीमभिकाङ्क्षमाणाः
द्वारि स्थिता हि वरदे कुरु सुप्रभातम्॥१४॥
मन्दार-कुन्द-कुसुमैरपि जातिपुष्पैः
मालाकृता विरचितानि मनोहराणि।
माल्यानि दिव्यपदयोरपि दातुमम्ब
तिष्ठन्ति देवि मुनयः कुरु सुप्रभातम्॥१५॥
काञ्ची-कलाप-परिरम्भनितम्बबिम्बं
काश्मीर-चन्दन-विलेपित-कण्ठदेशम्।
कामेश-चुम्बित-कपोलमुदारनासां
द्रष्टुं स्थिता वयमये कुरु सुप्रभातम्॥१६॥
मन्दस्मितं विमलचारुविशालनेत्रं
कण्ठस्थलं कमलकोमलगर्भगौरम्।
चक्राङ्कितं च युगलं पदयोर्मृगाक्षि
द्रष्टुं स्थिता वयमये कुरु सुप्रभातम्॥१७॥
मन्दस्मितं त्रिपुरनाशकरं पुरारेः
कामेश्वरप्रणयकोपहरं स्मितं ते।
मन्दस्मितं विपुलहासमवेक्षितुं ते
मातः स्थिता वयमये कुरु सुप्रभातम्॥१८॥
माता शिशूनां परिरक्षणार्थं
न चैव निद्रावशमेति लोके।
माता त्रयाणां जगतां गतिस्त्वं
सदा विनिद्रा कुरु सुप्रभातम्॥१९॥
मातर्मुरारिकमलासनवन्दिताङ्घ्र्याः
हृद्यानि दिव्यमधुराणि मनोहराणि।
श्रोतुं तवाम्ब वचनानि शुभप्रदानि
द्वारि स्थिता वयमये कुरु सुप्रभातम्॥२०॥
दिगम्बरो ब्रह्मकपालपाणिः
विकीर्णकेशः फणिवेष्टिताङ्गः।
तथाऽपि मातस्तव देविसङ्गात्
महेश्वरोऽभूत् कुरु सुप्रभातम्॥२१॥
अयि तु जननि दत्तस्तन्यपानेन देवि
द्रविडशिशुरभूद्वै ज्ञानसम्पन्नमूर्तिः।
द्रविडतनयभुक्तक्षीरशेषं भवानि
वितरसि यदि मातः सुप्रभातं भवेन्मे॥२२॥
जननि तव कुमारः स्तन्यपानप्रभावात्
शिशुरपि तव भर्तुः कर्णमूले भवानि।
प्रणवपदविशेषं बोधयामास देवि
यदि मयि च कृपा ते सुप्रभातं भवेन्मे॥२३॥
त्वं विश्वनाथस्य विशालनेत्रा
हालास्यनाथस्य नु मीननेत्रा।
एकाम्रनाथस्य नु कामनेत्रा
कामेशजाये कुरु सुप्रभातम्॥२४॥
श्रीचन्द्रशेखरगुरुर्भगवान् शरण्ये
त्वत्पादभक्तिभरितः फलपुष्पपाणिः।
एकाम्रनाथदयिते तव दर्शनार्थी
तिष्ठत्ययं यतिवरो मम सुप्रभातम्॥२५॥
एकाम्रनाथदयिते ननु कामपीठे
सम्पूजिताऽसि वरदे गुरुशङ्करेण।
श्रीशङ्करादिगुरुवर्य-समर्चिताङ्घ्रिं
द्रष्टुं स्थिता वयमये कुरु सुप्रभातम्॥२६॥
दुरितशमनदक्षौ मृत्युसन्तासदक्षौ
चरणमुपगतानां मुक्तिदौ ज्ञानदौ तौ।
अभयवरदहस्तौ द्रष्टुमम्ब स्थितोऽहं
त्रिपुरदलनजाये सुप्रभातं ममाऽऽर्ये॥२७॥
मातस्त्वदीयचरणं हरिपद्मजाद्यैः
वन्द्यं रथाङ्ग-सरसीरुह-शङ्खचिह्नम्।
द्रष्टुं च योगिजनमानसराजहंसं
द्वारि स्थितोऽस्मि वरदे कुरु सुप्रभातम्॥२८॥
पश्यन्तु केचिद्वदनं त्वदीयं
स्तुवन्तु कल्याणगुणांस्तवान्ये।
नमन्तु पादाब्जयुगं त्वदीयाः
द्वारि स्थितानां कुरु सुप्रभातम्॥२९॥
केचित् सुमेरोः शिखरेऽतितुङ्गे
केचिन्मणिद्वीपवरे विशाले।
पश्यन्तु केचित् त्वमृताब्धिमध्ये
पश्याम्यहं त्वामिह सुप्रभातम्॥३०॥
शम्भोर्वामाङ्कसंस्थां शशिनिभवदनां नीलपद्मायताक्षीं
श्यामाङ्गां चारुहासां निबिडतरकुचां पक्वबिम्बाधरोष्ठीम्।
कामाक्षीं कामदात्रीं कुटिलकचभरां भूषणैर्भूषिताङ्गीं
पश्यामः सुप्रभाते प्रणतजनिमतामद्य नः सुप्रभातम्॥३१॥
कामप्रदाकल्पतरुर्विभासि
नान्या गतिर्मे ननु चातकोऽहम्।
वर्षस्यमोघः कनकाम्बुधाराः
काश्चित्तु धारा मयि कल्पयाऽऽशु॥३२॥
त्रिलोचनप्रियां वन्दे वन्दे त्रिपुरसुन्दरीम्।
त्रिलोकनायिकां वन्दे सुप्रभातं ममाम्बिके॥३३॥
कामाक्षि देव्यम्ब तवाऽऽर्द्रदृष्ट्या
कृतं मयेदं खलु सुप्रभातम्।
सद्यः फलं मे सुखमम्ब लब्धं
तथा च मे दुःखदशा गता हि॥३४॥
ये वा प्रभाते पुरतस्तवाऽऽर्ये
पठन्ति भक्त्या ननु सुप्रभातम्।
शृण्वन्ति ये वा त्वयि बद्धचित्ताः
तेषां प्रभातं कुरु सुप्रभातम्॥३५॥
॥इति श्री-लक्ष्मीकान्त-शर्मा-विरचितं श्री-कामाक्षीसुप्रभातं सम्पूर्णम्॥