कामाक्षी-माहात्म्यम्

स्वामिपुष्करिणीतीर्थं पूर्वसिन्धुः पिनाकिनी।
शिलाह्रदश्चतुर्मध्यं यावत् तुण्डीरमण्डलम्॥१॥
मध्ये तुण्डीरभूवृत्तं कम्पा-वेगवती-द्वयोः।
तयोर्मध्यं कामकोष्ठं कामाक्षी तत्र वर्तते॥२॥
स एव विग्रहो देव्या मूलभूतोऽद्रिराड्भुवः।
नान्योऽस्ति विग्रहो देव्याः काञ्च्यां तन्मूलविग्रहः॥३॥
जगत्कामकलाकारं नाभिस्थानं भुवः परम्।
पदपद्मस्य कामाक्ष्याः महापीठमुपास्महे॥४॥
कामकोटिः स्मृतः सोऽयं कारणादेव चिन्नभः।
यत्र कामकृतो धर्मो जन्तुना येन केन वा।
सकृद् वाऽपि सुधर्माणां फलं फलति कोटिशः॥५॥
यो जपेत् कामकोष्ठेऽस्मिन् मन्त्रमिष्टार्थदैवतम्।
कोटिवर्णफलेनैव मुक्तिलोकं स गच्छति॥६॥
यो वसेत् कामकोष्ठेऽस्मिन् क्षणार्धं वा तदर्धकम्।
मुच्यते सर्वपापेभ्यः साक्षाद् देवी नराकृतिः॥७॥
गायत्रीमण्डपाधारं भूनाभिस्थानमुत्तमम्।
पुरुषार्थप्रदं शम्भोर्बिलाभ्रं तं नमाम्यहम्॥८॥
यः कुर्यात् कामकोष्ठस्य बिलाभ्रस्य प्रदक्षिणम्।
पदसङ्ख्याक्रमेणैव गोगर्भजननं लभेत्॥९॥
विश्वकारणनेत्राढ्यां श्रीमत्त्रिपुरसुन्दरीम्।
बन्धकासुरसंहन्त्रीं कामाक्षीं तामहं भजे॥१०॥
पराजन्मदिने काञ्च्यां महाभ्यन्तरमार्गतः।
योऽर्चयेत् तत्र कामाक्षीं कोटिपूजाफलं लभेत्।
तत्फलोत्पन्नकैवल्यं सकृत् कामाक्षिसेवया॥११॥
त्रिस्थाननिलयं देवं त्रिविधाकारमच्युतम्।
प्रतिलिङ्गाग्रसंयुक्तं भूतबन्धं तमाश्रये॥१२॥
य इदं प्रातरुत्थाय स्नानकाले पठेन्नरः।
द्वादशश्लोकमात्रेण श्लोकोक्तफलमाप्नुयात्॥

॥इति श्री-कामाक्षी-विलासे त्रयोविंशेऽध्याये श्री-कामाक्षी-माहात्म्यं सम्पूर्णम्॥