स्तोत्रसंहिताStotraSamhita
Stotra · Devī

गायत्रीस्तोत्रम्

Gāyatrīstotram

About this stotra

A hymn to Goddess Gāyatrī, beginning with her meditative form of five faces, in the Anuṣṭubh metre.

गायत्री-ध्यानम्

मुक्ता-विद्रुम-हेम-नील-धवलच्छायैर्मुखैस्त्रीक्षणैः
युक्तामिन्दु-निबद्ध-रत्न-मकुटां तत्त्वार्थ-वर्णात्मिकाम्।
गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गदां
शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे॥

नारद उवाच

भक्तानुकम्पिन् सर्वज्ञ हृदयं पापनाशनम्।
गायत्र्याः कथितं तस्माद् गायत्र्याः स्तोत्रमीरय॥१॥
आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि।
सर्वत्र व्यापिकेऽनन्ते श्रीसन्ध्ये ते नमोऽस्तु ते॥२॥
त्वमेव सन्ध्या गायत्री सावित्री च सरस्वती।
ब्रह्माणी वैष्णवी रौद्री रक्तश्वेता सितेतरा॥३॥
प्रातर्बाला च मध्याह्ने यौवनस्था भवेत् पुनः।
वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा॥४॥
हंसस्था गरुडारूढा तथा वृषभवाहिनी।
ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः॥५॥
यजुर्वेदं पठन्ती च ह्यन्तरिक्षे विराजते।
या सामगाऽपि सर्वेषु भ्राम्यमाणा तथा भुवि॥६॥
रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी।
त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी॥७॥
सप्तर्षिप्रीतिजननी माया बहुवरप्रदा।
शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा॥८॥
आनन्दजननी दुर्गा दशधा परिपठ्यते।
वरेण्या वरदा चैव वरिष्ठा वरवर्णिनी॥९॥
गरिष्ठा च वराही च वरारोहा च सप्तमी।
नीलगङ्गा तथा सन्ध्या सर्वदा भोगमोक्षदा॥१०॥
भागीरथी मर्त्यलोके पाताले भोगवत्यपि।
त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी॥११॥
भूर्लोकस्था त्वमेवासि धरित्री शोकधारिणी।
भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः॥१२॥
महर्लोके महासिद्धिर्जनलोकेऽजनेत्यपि।
तपस्विनी तपोलोके सत्यलोके तु सत्यवाक्॥१३॥
कमला विष्णुलोके च गायत्री ब्रह्मलोकगा।
रुद्रलोके स्थिता गौरी हरार्धाङ्गनिवासिनी॥१४॥
अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे।
साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी॥१५॥
ततः परा पराशक्तिः परमा त्वं हि गीयसे।
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिदा॥१६॥
गङ्गा च यमुना चैव विपाशा च सरस्वती।
सरयू रेविका सिन्धुर्नर्मदैरावती तथा॥१७॥
गोदावरी शतद्रुश्च कावेरी देवलोकगा।
कौशिकी चन्द्रभागा च वितस्ता च सरस्वती॥१८॥
गण्डकी तापिनी तोया गोमती वेत्रवत्यपि।
इडा च पिङ्गला चैव सुषुम्णा च तृतीयका॥१९॥
गान्धारी हस्तजिह्वा च पूषाऽपूषा तथैव च।
अलम्बुषा कुहूश्चैव शङ्खिनी प्राणवाहिनी॥२०॥
नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः।
हृत्पद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका॥२१॥
तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी।
मूले तु कुण्डलीशक्तिर्व्यापिनी केशमूलगा॥२२॥
शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी।
किमन्यद् बहुनोक्तेन यत् किञ्चिज्जगतीत्रये॥२३॥
तत् सर्वं त्वं महादेवि श्रिये सन्ध्ये नमोऽस्तु ते।
इतीदं कीर्तितं स्तोत्रं सन्ध्यायां बहुपुण्यदम्॥२४॥
महापापप्रशमनं महासिद्धिविदायकम्।
य इदं कीर्तयेत् स्तोत्रं सन्ध्याकाले समाहितः॥२५॥
अपुत्रः प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात्।
सर्वतीर्थतपोदानयज्ञयोगफलं लभेत्॥२६॥
भोगान् भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात्।
तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत्॥२७॥
यत्र कुत्र जले मग्नः सन्ध्यामज्जनजं फलम्।
लभते नात्र सन्देहः सत्यं सत्यं तु नारद॥२८॥
शृणुयाद् योऽपि तद्भक्त्या स तु पापात् प्रमुच्यते।
पीयूषसदृशं वाक्यं सन्ध्योक्तं नारदेरितम्॥२९॥

॥इति श्री-गायत्रीस्तोत्रं सम्पूर्णम्॥