About this stotra
From the Brahmavaivarta Purāṇa (Prakṛti Khaṇḍa, Adhyāya 66), as Nārāyaṇa tells it to Nārada. Śrī Kṛṣṇa Himself praises Durgā as the Mūla-prakṛti, the Mother of all. For the sake of creation She is saguṇa, yet in truth She is nirguṇa, Parabrahma-svarūpā Herself. She is Svāhā at the offerings to the gods and Svadhā at the offerings to the ancestors. She is learning in the learned, insight in the wise, majesty in kings and trade in merchants. She protects the good like a mother, and She is the great Māyā by which even the wise fail to see the path to liberation.
The phala-śruti says that one who reads it at the time of pūjā gains what they wish. A childless woman who hears it for a year is blessed with a good son. A prisoner is freed within a month, and the gravely ill are cured within a year. Those separated from son, family or wife are reunited, and hearing it gives protection at the king’s gate, in the cremation ground, the forest, the battlefield, near wild beasts and in fire. A poor and unlettered person who reads it for a year becomes learned and wealthy.
श्री-नारायण उवाच
स्तोत्रं च श्रूयतां ब्रह्मन् सर्वविघ्नविनाशकम्।
सुखदं मोक्षदं सारं भवसन्तारकारणम्॥
श्रीकृष्ण उवाच
त्वमेव सर्वजननी मूलप्रकृतिरीश्वरी।
त्वमेवाऽऽद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका॥१॥
कार्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम्।
परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी॥२॥
तेजःस्वरूपा परमा भक्तानुग्रहविग्रहा।
सर्वस्वरूपा सर्वेशा सर्वाधारा परात्परा॥३॥
सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया।
सर्वज्ञा सर्वतोभद्रा सर्वमङ्गलमङ्गला॥४॥
सर्वबुद्धिस्वरूपा च सर्वशक्तिस्वरूपिणी।
सर्वज्ञानप्रदा देवी सर्वज्ञा सर्वभाविनी॥५॥
त्वं स्वाहा देवदाने च पितृदाने स्वधा स्वयम्।
दक्षिणा सर्वदाने च सर्वशक्तिस्वरूपिणी॥६॥
निद्रा त्वं च दया त्वं च तृष्णा त्वं चाऽऽत्मनः प्रिया।
क्षुत्क्षान्तिः शान्तिरीशा च कान्तिस्तुष्टिश्च शाश्वती॥७॥
श्रद्धा पुष्टिश्च तन्द्रा च लज्जा शोभा प्रभा तथा।
सतां सम्पत्स्वरूपा श्रीर्विपत्तिरसतामिह॥८॥
प्रीतिरूपा पुण्यवतां पापिनां कलहाङ्कुरा।
शश्वत्कर्ममयी शक्तिः सर्वदा सर्वजीविनाम्॥९॥
देवेभ्यः स्वपदो दात्री धातुर्धात्री कृपामयी।
हिताय सर्वदेवानां सर्वासुरविनाशिनी॥१०॥
योगनिद्रा योगरूपा योगदात्री च योगिनाम्।
सिद्धिस्वरूपा सिद्धानां सिद्धिदा सिद्धियोगिनी॥११॥
माहेश्वरी च ब्रह्माणी विष्णुमाया च वैष्णवी।
भद्रदा भद्रकाली च सर्वलोकभयङ्करी॥१२॥
ग्रामे ग्रामे ग्रामदेवी गृहदेवी गृहे गृहे।
सतां कीर्तिः प्रतिष्ठा च निन्दा त्वमसतां सदा॥१३॥
महायुद्धे महामारी दुष्टसंहाररूपिणी।
रक्षास्वरूपा शिष्टानां मातेव हितकारिणी॥१४॥
वन्द्या पूज्या स्तुता त्वं च ब्रह्मादीनां च सर्वदा।
ब्राह्मण्यरूपा विप्राणां तपस्या च तपस्विनाम्॥१५॥
विद्या विद्यावतां त्वं च बुद्धिर्बुद्धिमतां सताम्।
मेधा स्मृतिस्वरूपा च प्रतिभा प्रतिभावताम्॥१६॥
राज्ञां प्रतापरूपा च विशां वाणिज्यरूपिणी।
सृष्टौ सृष्टिस्वरूपा त्वं रक्षारूपा च पालने॥१७॥
तथाऽन्ते त्वं महामारी विश्वे विश्वैश्च पूजिते।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी॥१८॥
दुरत्यया मे माया त्वं यया सम्मोहितं जगत्।
यया मुग्धो हि विद्वांश्च मोक्षमार्गं न पश्यति॥१९॥
फलश्रुतिः
इत्यात्मना कृतं स्तोत्रं दुर्गाया दुर्गनाशनम्।
पूजाकाले पठेद् यो हि सिद्धिर्भवति वाञ्छिता॥२०॥
वन्ध्या च काकवन्ध्या च मृतवत्सा च दुर्भगा।
श्रुत्वा स्तोत्रं वर्षमेकं सुपुत्रं लभते ध्रुवम्॥२१॥
कारागारे महाघोरे यो बद्धो दृढबन्धने।
श्रुत्वा स्तोत्रं मासमेकं बन्धनान्मुच्यते ध्रुवम्॥२२॥
यक्ष्मग्रस्तो गलत्कुष्ठी महाशूली महाज्वरी।
श्रुत्वा स्तोत्रं वर्षमेकं सद्यो रोगात् प्रमुच्यते॥२३॥
पुत्रभेदे प्रजाभेदे पत्नीभेदे च दुर्गतः।
श्रुत्वा स्तोत्रं मासमेकं लभते नात्र संशयः॥२४॥
राजद्वारे श्मशाने च महारण्ये रणस्थले।
हिंस्रजन्तुसमीपे च श्रुत्वा स्तोत्रं प्रमुच्यते॥२५॥
गृहदाहे च दावाग्नौ दस्युसैन्यसमन्विते।
स्तोत्रश्रवणमात्रेण लभते नात्र संशयः॥२६॥
महादरिद्रो मूर्खश्च वर्षं स्तोत्रं पठेत् तु यः।
विद्यावान् धनवांश्चैव स भवेन्नात्र संशयः॥२७॥
॥इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे षट्षष्टितमेऽध्याये श्री-नारद-नारायण-संवादे दुर्गोपाख्याने श्री-कृष्णविरचितं श्री-दुर्गास्तोत्रं सम्पूर्णम्॥