Pancharatnam

दुर्गापञ्चरत्नम्

ते ध्यान-योगानुगता अपश्यन्
त्वामेव देवीं स्वगुणैर्निगूढाम्।
त्वमेव शक्तिः परमेश्वरस्य
मां पाहि सर्वेश्वरि मोक्षदात्रि॥१॥
देवात्मशक्तिः श्रुतिवाक्यगीता
महर्षि लोकस्य पुरः प्रसन्ना।
गुहा परं व्योम सतः प्रतिष्ठा
मां पाहि सर्वेश्वरि मोक्षदात्रि॥२॥
परास्य शक्तिर्विविधैव श्रूयसे
श्वेताश्व-वाक्योदित-देवि दुर्गे।
स्वाभाविकी ज्ञानबलक्रिया ते
मां पाहि सर्वेश्वरि मोक्षदात्रि॥३॥
देवात्मशब्देन शिवात्मभूता
यत्कूर्मवायव्यवचो विवृत्या।
त्वं पाशविच्छेदकरी प्रसिद्धा
मां पाहि सर्वेश्वरि मोक्षदात्रि॥४॥
त्वं ब्रह्मपुच्छा विविधा मयूरी
ब्रह्म-प्रतिष्ठाऽस्युपदिष्ट-गीता।
ज्ञानस्वरूपात्मतयाऽखिलानां
मां पाहि सर्वेश्वरि मोक्षदात्रि॥५॥

॥इति श्री-काञ्चीजगद्गुरु-श्री-चन्द्रशेखरेन्द्रसरस्वती-श्रीचरणैः विरचितं श्री-दुर्गापञ्चरत्नं सम्पूर्णम्॥