Stotra · Sarasvatī
शारदा प्रार्थना
Śāradā Prārthanā
About this stotra
A prayer to Goddess Śāradā, who dwells in Kāśmīra, attributed to Ādi Śaṅkarācārya, in the Anuṣṭubh metre.Script
नमस्ते शारदे देवि काश्मीरपुरवासिनि।
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे॥१॥
या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा।
भक्तजिह्वाग्रसदना शमादिगुणदायिनी॥२॥
नमामि यामिनीं नाथलेखालङ्कृतकुन्तलाम्।
भवानीं भवसन्तापनिर्वापणसुधानदीम्॥३॥
भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः।
वेदवेदाङ्गवेदान्तविद्यास्थानेभ्य एव च॥४॥
ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी।
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः॥५॥
यया विना जगत् सर्वं शश्वज्जीवन्मृतं भवेत्।
ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः॥६॥
यया विना जगत् सर्वं मूकमुन्मत्तवत् सदा।
या देवी वागधिष्ठात्री तस्यै वाण्यै नमो नमः॥७॥
॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ श्री-शारदा-प्रार्थना सम्पूर्णा॥