विवाह-मङ्गलाष्टकम्
लक्ष्मीर्यस्य परिग्रहः कमल-भूः सूनुर्गरुत्मान् रथः
पौत्रश्चन्द्र-विभूषणः सुर-गुरु शेषश्च शय्या पुनः।
ब्रह्माण्डं वर-मन्दिरं सुर-गणाः यस्य प्रभोः सेवकाः
स त्रैलोक्य-कुटुम्ब-पालन-परः कुर्याद्धरिर्मङ्गलम्॥१॥
ब्रह्मा-वायु-गिरीश-शेष-गरुडा देवेन्द्र-कामौ गुरुः
चन्द्रार्कौ वरुणानलौ मनु-यमौ वित्तेश-विघ्नेश्वरौ।
नासत्यौ निरृतिर्मरुद् गण-युताः पर्जन्य-मित्रादयः
सस्त्रीकाः सुर-पुङ्गवाः प्रतिदिनं कुर्वन्तु नो मङ्गलम्॥२॥
विश्वामित्र-पराशरौर्व-भृगवो-ऽगस्त्यः पुलस्त्यः क्रतुः
श्रीमानत्रि-मरीचि-कौत्स-पुलहाः शक्तिर्वसिष्ठोऽङ्गिराः।
माण्डव्यो जमदग्नि-गौतम-भरद्वाजादयस्तापसाः
श्रीमद् विष्णु-पदाब्ज-भक्ति-निरताः कुर्वन्तु नो मङ्गलम्॥३॥
मान्धाता नहुषोऽम्बरीष-सगरौ राजा पृथुर्हैहयः
श्रीमान् धर्म-सुतो नलो दशरथो रामो ययातिर्यदुः।
इक्ष्वाकुश्च विभीषणश्च भरतश्चोत्तानपाद-ध्रुवा-
वित्येते भुवि भूभुजाः प्रतिदिनं कुर्वन्तु नो मङ्गलम्॥४॥
श्री-मेरुर्हिमवांश्च मन्दर-गिरिः कैलास-शैलस्तथा
माहेन्द्रो मलयश्च विन्ध्य-निषधौ सिंहस्तथा रैवतः।
सह्याद्रिर्वर-गन्धमादन-गिरिर्मैनाक-गोमान्तका-
वित्येते भुवि भूधराश्च प्रतिदिनं सततं कुर्वन्तु नो मङ्गलम्॥५॥
गङ्गा-सिन्धु-सरस्वती च यमुना गोदावरी नर्मदा
कृष्णा भीमरथी च फल्गु-सरयूः श्री-गण्डकी गोमती।
कावेरी-कपिला-प्रयाग-किटिजा-नेत्रावतीत्यादयो
नद्यः श्रीहरि-पाद-पङ्कज-भवाः कुर्वन्तु नो मङ्गलम्॥६॥
वेदाश्चोपनिषद्-गणाश्च विविधाः साङ्गाः पुराणान्विता
वेदान्ता अपि मन्त्र-तन्त्र-सहितास्तर्काः स्मृतीनां गणाः।
काव्यालङ्कृति-नीति-नाटक-युताः शब्दाश्च नाना-विधाः
श्रीविष्णोर्गुण-नाम-कीर्तन-पराः कुर्वन्तु नो मङ्गलम्॥७॥
आदित्यादि-नव-ग्रहाः शुभ-करा मेषादयो राशयो
नक्षत्राणि स-योगकाश्च तिथयस्तद्-देवतास्तद्-गणाः।
मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयः
सर्वे स्थावर-जङ्गमाः प्रतिदिनं कुर्वन्तु नो मङ्गलम्॥८॥
इत्येतद् वर-मङ्गलाष्टकमिदं श्रीवादिराजेश्वरे-
णाऽख्यातं जगतामभीष्ट-फल-दं सर्वाशुभ-ध्वंसनम्।
माङ्गल्यादि-शुभ-क्रियासु सततं सन्ध्यासु वा यः पठेद्
धर्मार्थादि-समस्त-वाञ्छित-फलं प्राप्नोत्यसौ मानवः॥
॥इति श्रीवादिराजेश्वरयतिविरचितं मङ्गलाष्टकं सम्पूर्णम्॥