सीता-विवाह-चूर्णिका
(१) अथ जनक-नृपतिर्-मनोरथ-महार्णव-पारं गत्वा,
(२) परमानन्द-जलधौ निमग्नः
(३) जगच्चक्षुः-कुल-भूषणस्य
(४) जगत्-त्रय-संरक्षण-दीक्षितस्य
(५) नत-जन-कल्प-तरोः
(६) श्रीकोदण्ड-दीक्षा-गुरोः
(७) विवाह-महोत्सवाय,
(८) क्षिति-रथ-वर–पूरित-मनो-रथ–भगीरथ-वंश-जातं
(९) अतिरथ-महारथ-पृथिवी-पति-वन्दितं
(१०) दशरथ-महाराजं
(११) रथ-गज-तुरग-पदाति-सहितं
(१२) स-मन्त्रि-पुरोहितं
(१३) स-पुत्र-कलत्रं
(१४) सामात्यं स-परिवारम् आनाय्य सत्कृत्य,
(१५) नाना-विध-क्रमुक-नारिकेल-रम्भादि-फल-युक्त-सहस्र-शातकुम्भ-स्तम्भ-भूषिते
(१६) जम्भारि-चिर-काङ्क्षिते
(१७) परिपूर्ण-मनोरथ-परमानन्द-पौर-भक्तजन-परस्परकृत-सल्लापे
(१८) सकल-जन-मनोहरालापे
(१९) किरीट-कवच-कुण्डल-केयूर-नूपुर-मुक्ताहार–विभूषित–नानाविध-मृदुल-चित्रासनस्थ–नानादेशागत–राजवर्य-वृन्दे
(२०) लोचनानन्दे
(२१) नानाविध-वर्ण-स्वर्णपुष्प-स्तबक-कोटि-देदीप्यमान–मलय-चन्दनारु-गुग्गुलु-गोघृतादि-दिव्य-परिमल-वासना-वस्तु-घुमघुमायमान-सभान्तरे
(२२) निरन्तर-मणि-खचित-मुकुर-परम्परे
(२३) भेरी-मृदङ्ग-मद्दल-काहल-दुन्दुभि-तुरीय-तुम्बुरु-वीणा-वेणु-नूपुर-मड्डुक-डिण्डिम-डमरुक-जञ्झरि-झल्लरि-धवलशङ्ख-पणव-पटहाद्यष्टादश-वाद्य-घोष-सन्तत-शब्दायमान-सकल-दिगन्तरे
(२४) नारद-तुम्बुरु-वीणागान-मनोहरे
(२५) सवत्स-गोसहस्राद्यनेक-कोटि-हिरण्य-वस्त्राभरण-भूदान-बहुमान-सन्तोषित–पात्रभूतोभय-सम्बन्धि-राजश्रेष्ठ-वंशावलि-नाम-गोत्र-प्रवरोच्चारण-निपुण–वसिष्ठ-वामदेव-विश्वामित्र-शतानन्दादि-सकल-मुनिगण-सङ्कीर्ण–विवाह-वेदि-मध्ये
(२६) कृत-स्तव-सिद्ध-साध्ये
(२७) अब्जभव-जिष्णुमुख-हृष्ट-सकल-त्रिदश-सप्तमरुद् अष्टवसु-यक्षगण-सिद्धजन-रुद्रगण-सत्कृत–पवित्रतर–मित्र-कुल-रत्न-सुगुण-स्तव-समस्त-प्रशस्त-बिरुद-स्तोम-निनदे
(२८) निरस्त-धनदेन्द्र-बिरुदे
(२९) सङ्क्रन्दनाद्यमर-वृन्दावकीर्यमाण-मन्दार-कुसुम-मुख–नन्दक-वर्षे
(३०) नवरत्न-मणिखचित-कनकमय-मण्टपे
(३१) किञ्चिद् आरब्ध-तारुण्यं
(३२) नत-जनैक-कारुण्यं
(३३) विदलित-महेश-चापं
(३४) विधिमुख-सुरादिविदित-प्रतापं
(३५) परिहृत-मुनिजन-तापं
(३६) भानुकुल-रत्न-दीपं
(३७) सम्पूरित-भक्त-जन-कामं
(३८) सजल-जलधर-श्यामं
(३९) सकल-लोकाभिरामं
(४०) श्रीरामं सन्निवेश्य,
(४१) केतकी-चम्पक-मल्लिका-कुसुमाद्यलङ्कृत-नीलालक-वेणीं
(४२) कलहंस-गामिनीं
(४३) करुणावलोकिनीं
(४४) अगणित-कल्याण-गुण-गण-शीलाम्
(४५) अनघ-मणि-खचित-हेमकण्ठीं
(४६) स्वर-जित-कल-कण्ठीं
(४७) हाटक-मणिमय-ताटङ्कालङ्कृत-कपोलाम्
(४८) अरविन्द-सुन्दर-मन्दहास-मुखीं
(४९) श्रीरघुनन्दनाभिमुखीं कृत्वा
(५०) ‘इयं सीता मम सुता सहधर्मचरी तव।
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना॥’
(५१) इति क्षीराब्धिरिव महालक्ष्मीं श्रीमते नारायणाय
(५२) शोभन-मन्त्राक्षत-हिरण्योदक-धारा-सहितं
(५३) मन्द-स्मितां सीतां
(५४) श्रीराम-चन्द्र-करारविन्दे समर्पयामास॥
ततः—
इति कन्यां निवेदयेत्।