हनुमत्कृतं श्री-सीता-राम-स्तोत्रम्

अयोध्या-पुर-नेतारं मिथिला-पुर-नायिकाम्।
इक्ष्वाकूणाम् अलङ्कारं वैदेहानाम् अलङ्क्रियाम्॥१॥
रघूणां कुल-दीपं च निमीनां कुल-दीपिकाम्।
सूर्य-वंश-समुद्भूतं सोम-वंश-समुद्भवाम्॥२॥
पुत्रं दशरथस्यापि पुत्रीं जनक-भूपतेः।
वसिष्ठ-अनुमताचारं शतानन्द-मतानुगाम्॥३॥
कौसल्या-गर्भ-सम्भूतं वेदि-गर्भोदितां स्वयम्।
पुण्डरीक-विशालाक्षं स्फुरद् इन्दीवरेक्षणाम्॥४॥
चन्द्र-कान्ताननाम्भोजं चन्द्रबिम्ब-उपमाननाम्।
मत्त-मातङ्ग-गमनं मत्त-सारस-गामिनीम्॥५॥
चन्दनार्द्र-भुजा-मध्यं कुङ्कुमाक्त-कुच-स्थलीम्।
चापालङ्कृत-हस्ताब्जं पद्मालङ्कृत-पाणिकाम्॥६॥
शरणागतगोप्तारं प्रणिपातप्रसादिकाम्।
ताली-दल-श्यामलाङ्गं तप्त-चामीकर-प्रभाम्॥७॥
दिव्य-सिंहासनारूढं दिव्य-स्रग्-वस्त्र-भूषणाम्।
अनुक्षणं कटाक्षाभ्याम् अन्योन्य-ईक्षण-काङ्क्षिणौ॥८॥
अन्योन्य-सदृशाकारौ त्रैलोक्य-गृह-दम्पती।
इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम्॥९॥
अनया स्तोति यः स्तुत्या रामं सीतां च भक्तितः।
तस्य तौ तनुतां प्रीतौ सम्पदः सकला अपि॥१०॥
इतीदं रामचन्द्रस्य जानक्याश्च विशेषतः।
कृतं हनुमता पुण्यं स्तोत्रं सद्यो विमुक्ति-दम्।
यः पठेत्प्रातरुत्थाय सर्वान् कामानवाप्नुयात्॥११॥

॥इति श्री-हनूमत्कृतं श्री-सीतारामस्तोत्रं सम्पूर्णम्॥