शम्भुकृत-रामस्तवः

महादेव उवाच

नमो मूलप्रकृतये नित्याय परमात्मने।
सच्चिदानन्दरूपाय विश्वरूपाय वेधसे॥२४॥
नमो निरन्तरानन्द कन्दमूलाय विष्णवे।
जगत्त्रयकृतानन्द मूर्तये दिव्यमूर्तये॥२५॥
नमो ब्रह्मेन्द्रपूज्याय शङ्कराभयदाय च।
नमो विष्णुस्वरूपाय सर्वरूप नमो नमः॥२६॥
उत्पत्तिस्थितिसंहारकारिणे त्रिगुणात्मने।
नमोऽस्तु निर्गतोपाधिस्वरूपाय महात्मने॥२७॥
अनया विद्यया देव्या सीतयोपाधिकारिणे।
नमः पुम्प्रकृतिभ्यां च युवाभ्यां जगतां कृते॥२८॥
जगन्मातापितृभ्यां च जनन्यै राघवाय च।
नमः प्रपञ्चरूपिण्यै निष्प्रपञ्चस्वरूपिणे॥२९॥
नमो ध्यानस्वरूपिण्यै योगिध्येयात्ममूर्तये।
परिणामापरीणामरिक्ताभ्यां च नमो नमः॥३०॥
कूटस्थबीजरूपिण्यै सीतायै राघवाय च।
सीता लक्ष्मीर्भवान् विष्णुः सीता गौरी भवान् शिवः॥३१॥
सीता स्वयं हि सावित्री भवान् ब्रह्मा चतुर्मुखः।
सीता शची भवान् शक्रः सीता स्वाहाऽनलो भवान्॥३२॥
सीता संहारिणी देवी यमरूपधरो भवान्।
सीता हि सर्वसम्पत्तिः कुबेरस्त्वं रघूत्तम॥३३॥
सीता देवी च रुद्राणी भवान् रुद्रो महाबलः।
सीता तु रोहिणी देवी चन्द्रस्त्वं लोकसौख्यदः॥३४॥
सीता संज्ञा भवान्सूर्यः सीता रात्रिर्दिवा भवान्।
सीता देवी महाकाली महाकालो भवान्सदा॥३५॥
स्त्रीलिङ्गेषु त्रिलोकेषु यत्तत्सर्वं हि जानकी।
पुन्नाम लाञ्छितं यत्तु तत्सर्वं हि भवान् प्रभो॥३६॥
सर्वत्र सर्वदेवेश सीता सर्वत्र धारिणी।
तदा त्वमपि च त्रातुं तच्छक्तिर्विश्वधारिणी॥३७॥
तस्मात्कोटिगुणं पुण्यं युवाभ्यां परिचिह्नितम्।
चिह्नितं शिवशक्तिभ्यां चरितं तव शान्तिदम्॥३८॥
आवां राम जगत्पूज्यौ मम पूज्यौ सदा युवाम्।
त्वन्नामजापिनी गौरी त्वन्मन्त्रजपवानहम्॥३९॥
मुमूर्षोर्मणिकर्ण्यां तु अर्धोदकनिवासिनः।
अहं दिशामि ते मन्त्रं तारकं ब्रह्मदायकम्॥४०॥
अतस्त्वं जानकीनाथ परब्रह्मासि निश्चितम्।
त्वन्मायामोहिताः सर्वे न त्वां जानन्ति तत्वतः॥४१॥

ईश्वर उवाच

इत्युक्तः शम्भुना रामः प्रसादप्रवणोऽभवत्।
दिव्यरूपधरः श्रीमानद्भुताद्भुतदर्शनः॥४२॥
तथा तं रूपमालोक्य नरवानरदेवताः।
न द्रष्टुमपिशक्तास्ते तेजसं महदद्भुतम्॥४३॥
भयाद्वै त्रिदशश्रेष्ठाः प्रणेमुश्चातिभक्तितः।
भीता विज्ञाय रामोऽपि नरवानरदेवताः।
मायामानुषतां प्राप्य स देवानब्रवीत्पुनः॥४४॥

रामचन्द्र उवाच

शृणुध्वं देवता यो मां प्रत्यहं संस्तुविष्यति।
स्तवेन शम्भुनोक्तेन देवतुल्यो भवेन्नरः॥४५॥
विमुक्तः सर्वपापेभ्यो मत्स्वरूपं समश्नुते।
रणे जयमवाप्नोति न क्वचित्प्रतिहन्यते॥४६॥
भूतवेतालकृत्याभिर्ग्रहैश्चापि न बाध्यते।
अपुत्रो लभते पुत्रं पतिं विन्दति कन्यका॥४७॥
दरिद्रः श्रियमाप्नोति सत्ववाञ्शीलवान्भवेत्।
आत्मतुल्यबलः श्रीमाञ्जायते नात्र संशयः॥४८॥
निर्विघ्नं सर्वकार्येषु सर्वारम्भेषु वै नृणाम्।
यं यं कामयते मर्त्यः सुदुर्लभमनोरथम्॥४९॥
षण्मासात्सिद्धिमाप्नोति स्तवस्यास्य प्रसादतः।
यत्पुण्यं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम्।
तत्फलं कोटिगुणितं स्तवेनानेन लभ्यते॥५०॥

ईश्वर उवाच

इत्युक्त्वा रामचन्द्रोऽसौ विससर्ज महेश्वरम्।
ब्रह्मादि त्रिदशान्सर्वान् विससर्ज समागतान्॥५१॥
अर्चिता मानवाः सर्वे नरवानरदेवताः।
विसृष्टा रामचन्द्रेण प्रीत्या परमया युताः॥५२॥
इत्थं विसृष्टाः खलु ते च सर्वे
सुखं तदा जग्मुरतीवहृष्टाः।
परं पठन्तः स्तवमीश्वरोक्तं
रामं स्मरन्तो वरविश्वरूपम्॥५३॥

॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे विश्वदर्शनं नाम त्रिचत्वारिंशदधिकद्विशततमोऽध्याये श्री-शम्भुकृत-रामस्तवः सम्पूर्णः॥