स्तोत्रसंहिताStotraSamhita
Stotra · Rāma

रामद्वादशनामस्तोत्रम्

Rāmadvādaśanāmastotram

About this stotra

Twelve names of Śrī Rāma, taught by Śiva, from the Skanda Purāṇa, in the Anuṣṭubh metre.

Nama Stotram

प्रथमं श्रीधरं विद्याद् द्वितीयं रघुनायकम्।
तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम्॥१॥
पञ्चमं लोकपूज्यं च षष्ठमं जानकीपतिम्।
सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा॥२॥
नवमं जलदश्यामं दशमं लक्ष्मणाग्रजम्।
एकादशं च गोविन्दं द्वादशं सेतुबन्धनम्॥३॥
द्वादशैतानि नामानि यः पठेछ्रद्धयान्वितः।
अर्धरात्रे तु द्वादश्यां कुष्ठदारिद्र्यनाशनम्॥४॥
अरण्ये चैव सङ्ग्रामे अग्नौ भयनिवारणम्।
ब्रह्महत्या सुरापानं गोहत्यादि निवारणम्॥५॥
सप्तवारं पठेन्नित्यं सर्वारिष्टनिवारणम्।
ग्रहणे च जले स्थित्वा नदीतीरे विशेषतः।
अश्वमेधशतं पुण्यं ब्रह्मलोकं गमिष्यति॥६॥

॥इति श्री-स्कान्दपुराणे उत्तरखण्डे श्री-उमामहेश्वरसंवादे श्री-रामद्वादशनामस्तोत्रं सम्पूर्णम्॥