रामस्तोत्रम्

मुनय ऊचुः

नमस्ते रामचन्द्राय लोकानुग्रहकारिणे।
अरावणं जगत्कर्तुमवतीर्णाय भूतले॥६३॥
ताटिकादेहसंहर्त्रे गाधिजाध्वररक्षिणे।
नमस्ते जितमारीच सुबाहुप्राणहारिणे॥६४॥
अहल्यामुक्तिसन्दायिपादपङ्कजरेणवे।
नमस्ते हरकोदण्डलीलाभञ्जनकारिणे॥६५॥
नमस्ते मैथिलीपाणिग्रहणोत्सवशालिने।
नमस्ते रेणुकापुत्रपराजयविधायिने॥६६॥
सहलक्ष्मणसीताभ्यां कैकेय्यास्तु वरद्वयात्।
सत्यं पितृवचः कर्तुं नमो वनमुपेयुषे॥६७॥
भरतप्रार्थनादत्तपादुकायुगुलाय ते।
नमस्ते शरभङ्गस्य स्वर्गप्राप्त्यैकहेतवे॥६८॥
नमो विराधसंहर्त्रे गृध्रराजसखाय ते।
मायामृगमहाक्रूरमारीचाङ्गविदारिणे॥६९॥
सीतापहारिलोकेशयुद्धत्यक्तकलेवरम्।
जटायुषं तु सन्दह्य तत्कैवल्यप्रदायिने॥७०॥
नमः कबन्धसंहर्त्रे शबरीपूजिताङ्घ्रये।
प्राप्तसुग्रीवसख्याय कृतवालिवधाय ते॥७१॥
नमः कृतवते सेतुं समुद्रे वरुणालये।
सर्वराक्षससंहर्त्रे रावणप्राणहारिणे॥७२॥
संसाराम्बुधिसन्तारपोतपादाम्बुजाय ते।
नमो भक्तार्तिसंहर्त्रे सच्चिदानन्दरूपिणे॥७३॥
नमस्ते रामभद्राय जगतामृद्धिहेतवे।
रामादिपुण्यनामानि जपतां पापहारिणे॥७४॥
नमस्ते सर्वलोकानां सृष्टिस्थित्यन्तकारिणे।
नमस्ते करुणामूर्ते भक्तरक्षणदीक्षित॥७५॥
ससीताय नमस्तुभ्यं विभीषणसुखप्रद।
लङ्केश्वरवधाद्राम पालितं हि जगत्त्वया॥७६॥
रक्ष रक्ष जगन्नाथ पाह्यस्माञ्जानकीपते।
स्तुत्वैवं मुनयः सर्वे तूष्णीं तस्थुर्द्विजोत्तमाः॥७७॥

श्रीसूत उवाच

य इदं रामचन्द्रस्य स्तोत्रं मुनिभिरीरितम्।
त्रिसन्ध्यं पठते भक्त्या भुक्तिं मुक्तिं च विन्दति॥७८॥
प्रयाणकाले पठतो न भीतिरुपजायते।
एतत्स्तोत्रस्य पठनाद् भूतवेतालकादयः॥७९॥
नश्यन्ति रोगा नश्यन्ति नश्यते पापसञ्चयः।
पुत्रकामो लभेत्पुत्रं कन्या विन्दति सत्पतिम्॥८०॥
मोक्षकामो लभेन्मोक्षं धनकामो धनं लभेत्।
सर्वान्कामानवाप्नोति पठन्भक्त्या त्विमं स्तवम्॥८१॥

॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथलिङ्गप्रतिष्ठाविधिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायतः मुनिभिः कृतं रामस्तोत्रं सम्पूर्णम्॥