देवैः कृतं राम-स्तोत्रम्

शेष उवाच

अथाभिषिक्तं रामं तु तुष्टुवुः प्रणताः सुराः।
रावणाभिधदैत्येन्द्र वधहर्षितमानसाः॥१॥

देवा ऊचुः

जय दाशरथे सुरार्तिहञ्जय जय दानववंशदाहक।
जय देववराङ्गनागणग्रहणव्यग्रकरारिदारक॥२॥
तवयद्दनुजेन्द्रनाशनं कवयो वर्णयितुं समुत्सुकाः।
प्रलये जगतान्ततीः पुनर्ग्रससे त्वं भुवनेशलीलया॥३॥
जय जन्मजरादिदुःखकैः परिमुक्तप्रबलोद्धरोद्धर।
जय धर्मकरान्वयाम्बुधौ कृतजन्मन्नजरामराच्युत॥४॥
तव देववरस्य नामभिर्बहुपापा अपि ते पवित्रिताः।
किमु साधुद्विजवर्यपूर्वकाः सुतनुं मानुषतामुपागताः॥५॥
हरविरिञ्चिनुतं तव पादयोर्युगलमीप्सितकामसमृद्धिदम्।
हृदि पवित्रयवादिकचिह्नितैः सुरचितं मनसा स्पृहयामहे॥६॥
यदि भवान्न दधात्यभयं भुवो मदनमूर्ति तिरस्करकान्तिभृत्।
सुरगणा हि कथं सुखिनः पुनर्ननु भवन्ति घृणामय पावन॥७॥
यदा यदास्मान्दनुजाहि दुःखदास्तदा तदा त्वं भुवि जन्मभाग्भवेः।
अजोऽव्ययोऽपीशवरोऽपि सन्विभो स्वभावमास्थाय निजं निजार्चितः॥८॥
मृतसुधासदृशैरघनाशनैः सुचरितैरवकीर्य महीतलम्।
अमनुजैर्गुणशंसिभिरीडितः प्रविश चाशु पुनर्हि स्वकं पदम्॥९॥
अनादिराद्योजररूपधारी हारी किरीटी मकरध्वजाभः।
जयं करोतु प्रसभं हतारिः स्मरारि संसेवितपादपद्मः॥१०॥
इत्युक्त्वा ते सुराः सर्वे ब्रह्मेन्द्रप्रमुखा मुहुः।
प्रणेमुररिनाशेन प्रीणिता रघुनायकम्॥११॥
इति स्तुत्यातिसंहृष्टो रघुनाथो महायशाः।
प्रोवाच तान्सुरान्वीक्ष्य प्रणतान्नतकन्धरान्॥१२॥

श्रीराम उवाच

सुरा वृणुत मे यूयं वरं किञ्चित्सुदुर्लभम्।
यं कोऽपि देवो दनुजो न यक्षः प्राप सादरः॥१३॥

सुरा ऊचुः

स्वामिन्भगवतः सर्वं प्राप्तमस्माभिरुत्तमम्।
यदयं निहतः शत्रुरस्माकं तु दशाननः॥१४॥
यदा यदाऽसुरोऽस्माकं बाधां परिदधाति भोः।
तदा तदेति कर्तव्यमेतावद्वैरिनाशनम्॥१५॥
तथेत्युक्त्वा पुनर्वीरः प्रोवाच रघुनन्दनः।

श्रीराम उवाच

सुराः शृणुत मद्वाक्यमादरेण समन्विताः॥१६॥
भवत्कृतं मदीयैर्वैगुणैर्ग्रथितमद्भुतम्।
स्तोत्रं पठिष्यति मुहुः प्रातर्निशि सकृन्नरः॥१७॥
तस्य वैरि पराभूतिर्न भविष्यति दारुणा।
न च दारिद्र्यसंयोगो न च व्याधिपराभवौ॥१८॥
मदीयचरणद्वन्द्वे भक्तिस्तेषां तु भूयसी।
भविष्यति मुदायुक्ते स्वान्ते पुंसां तु पाठतः॥१९॥
इत्युक्त्वा सोऽभवत्तूष्णीं नरदेवशिरोमणिः।
सुराः सर्वे प्रहृष्टास्ते ययुर्लोकं स्वकं स्वकम्॥२०॥

॥इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे अगस्त्यसमागमोनाम पञ्चमोऽध्यायान्तर्गतं देवैः कृतं श्री-राम-स्तोत्रं सम्पूर्णम्॥